पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः बुधाद्, श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद् भट्टाचार्यसुताद्दिवाकर इति ख्याताजन प्राप्तवान् । यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके, सत्सिद्धान्तशिरोमणे: सुरुचिरः स्पष्टाधिकारो गतः ॥ ॥ इति गणिताचार्यनृसिंहकृतौ [ वासनावात्तिके ] स्पष्टाधिकारः ॥ २ ॥ [ अथ त्रिप्रश्नाधिकारः ] ९४१ अथ त्रिप्रश्नाध्यायं विवक्षुस्तावत् तदारम्भप्रयोजनमाह- जगुर्विदोऽदः किल कालतन्त्र दिग्देशकालावगमोऽत्र यस्मिन् । त्रिप्रश्ननाम्नि प्रचुरोक्तिधाम्नि ब्रुवेऽधिकारं तमशेषसारम् ।। १ । वा० भा० - स्पष्टार्थम् ।। १ । वा० वा० – ( अथ) त्रिप्रश्नाधिकारी व्याख्यायते – 'जगुर्विदोऽदः किल' इति । बुधाः कालतन्त्रं कालप्रतिपादकं शास्त्रमिदं जगुः । स च कालोऽस्मिस्त्रिप्रश्ना- धिकारे प्रतिपाद्यत इत्यखिलगणितशास्त्रसारोऽयमधिकार आरभ्यते । ननु निखिलग्रहगणितशास्त्रेण काल : प्रतिपाद्यत एव । तथाहि स्पष्टाधिकारे तिथ्यादिपञ्चाङ्गरूपकालः प्रतिपादितः । तस्य पूर्व प्रतिपादनं सकलकर्मसङ्कल्पोपयुक्त- त्वात्तिथ्यादिविशेषमधिकृत्य श्रुतिस्मृतिपुराणादिषु कर्मविशेषविधानदर्शनाच्च । ‘अमा- वास्यायाममावास्यया यजेत' 'पौर्णमास्यां पोर्णमास्यया यजेत' | 'अमावास्यायामप- राह्णे पिण्डपितृयज्ञेन चरन्ति' । 'सोदयत्रिमुहूर्त्तायां कुर्याद्दानं व्रतानि च ' इत्येवमादीनि । कर्माणि श्रूयन्ते । मध्यमाधिकारे सौरचान्द्रसावननाक्षत्राधिमासादिकालज्ञानमुक्तम् । 'ब्रह्मणो द्वितीयपरार्द्धे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे' इत्यादि सङ्कल्पाद्युपयोगि- त्वेन तिथ्यादिकालसंकीर्तनात् पूर्वमेव तत्प्रतिपादनं युक्तम् । प्रातः सङ्गवमध्याह्ना पराह्नाः सायमिति दिनपञ्चधादिविभागाद्युपयोगित्वेन दिनप्रमाणमुक्तम् । 'चन्द्रसूर्य- ग्रहणाधिकारयोः स्पर्शमध्यमोक्षकालज्ञानम् । ग्रहास्तोदयाधिकारे चन्द्रगुरुभृगुबाल्यवा- यस्तमनकालप्रतिपादनम् । कर्णवेधस्तु दीक्षा |

  • नीचस्थे वक्रसंस्थेऽप्यतिचरणगते बालवृद्धेऽस्तगे वा

संन्यासो देवयात्राव्रतनियमविधिः मौञ्जीबन्धोऽङ्गनानां वर्ज्याः सद्भिस्त्रिदशपतिगुरौ शुक्रस्थाविरबाल्यनाशसमये सर्वेऽपि नेच्छन्ति तत् । परिणयन विधिर्वास्तुदेवप्रतिष्ठा सिंहराशिस्थिते वा ॥ 'यस्य हविनिरुप्तं पुरस्ताच्चन्द्रमाऽभ्युदियात् स त्रेधा तण्डुलान् विभजेत्' इति । १. ग्रहाधिका इति क ख पु० । २. मुहूर्त चिन्तामणो शुभाशुभप्रकरणे ४८ श्लोकस्य पीयूषधाराटीकायामिदं लल्लोक्तं वर्तते ।