पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते ननु भाष्यकारपादैर्वक्रतासंभवमाहेति प्रागुक्तमथोदयास्तसंभवमाहेत्युच्यते — तत्रं संभवपदोपादानं व्यर्थंमिति चेत् । तत्रोच्यते । भौमस्य त्रिनृपेंद्रविकेन्द्रभागैर्यावच्छी- घ्रगतिफलमानीयते तावन्मध्यगतितुल्यमृणमायाति । तत्तु मन्दस्पष्टभुक्तेः शोध्यम् । शोधितेऽपि न सर्वदा शून्यं गतिर्भवति, मन्द- स्पष्टभुक्तेर्मध्यगतिभिन्नत्वात् । यदा तु गतिशीघ्रफलं मन्दस्पष्टगतितुल्यमृणं च तदा वास्तवो वक्रमार्गारम्भः । एवं वास्तववक्रारम्भदिने शीघ्रकेन्द्रं त्रिनृपेभ्यो हीनाधिक- मपि दृश्यते तस्मात्संभवपदं दत्तम् । अत एव सौरे वेदनृपतुल्यं वक्रसंभवकेन्द्रमुक्तम् । एवं दृक्कर्मसंस्कृतखगस्य स्पष्टार्कस्येष्टकालांशंसाधनप्रकारेण पठितस्वीयकालांशतुल्य- मन्तरं यदा तदोदयोऽस्तो वा भवतीति वास्तवम् । यत्तु क्षितिजेऽष्टयमैरुदेति पूर्व ' इत्यनेनोदयाभिधानं तत्तु मध्यमार्कस्पष्टख- गान्तरस्य कालांशतुल्येऽपि कदाचिदुदयो दृश्यत एवेति संभवाभिप्रायेण । अत्रार्के मध्यमे लङ्कायाः क्षितिजसन्निधिगे सति ग्रहाः साधिताः । अपेक्षितास्तु स्वीयप्रदेशे स्पष्टार्कोदयकाल इत्युदयान्तरचरदेशान्तरर विफलानि संस्क्रियन्ते । सौरे तु मध्यमार्के लङ्कायास्तलस्थयाम्योत्तरवृत्तखण्डसन्निधिगे सति ग्रहाः साधिताः । अपेक्षितास्तु स्वीय .प्रदेशतलस्थयाम्योत्तरवृत्तस्थे तस्मादुदयान्तरदेशान्तररविमन्दफलानि संस्कृतानि । यत्तु सौरभाष्येऽभिहितं ये मध्यमार्कजन्यार्द्धरात्रिकास्ते भुजान्तराख्य- कर्मणा स्पष्टार्कजन्यार्द्धरात्रिकाः क्रियन्त इति । तत्र मध्यमार्केण जन्यं सम्बद्धं यदधं- रात्रं सिद्धपुरोर्पारस्थयाम्योत्तरवृत्तं तात्कालिकमितिव्याख्येयम् | मध्यमार्के सिद्धपुरो- परिस्थयाम्योत्तरवृत्तस्थे सति ये ग्रहास्ते स्पष्टार्कयाम्योत्तरसम्बन्धकालीनाः क्रियन्त इति भावः । न तत्र मध्यमार्काज्जन्यमुत्पन्नं यदर्द्धरात्रं तत्कालीना इति व्याख्येयम् । स्पष्टार्के । अथ प्रकृतमनुसरामः । 'चरादिसंस्काराः ग्रहेषु कर्त्तव्यास्तत्र चरज्ञानं चरज्या- ज्ञाने तदवबोधः । कुज्याज्ञाने च कुज्यायुज्याज्ञानं, क्रान्तिज्या ज्ञाने क्रान्तिज्याज्ञानं, सायनग्रहदोर्ज्याज्ञाने तस्मादेताः पञ्चज्याः साधयितुं युज्यन्ते । तत्रायनांशज्ञानं ब्रह्मतु- ल्यकरणात् 'करणाब्दलिप्तायुक्ताभवा' इत्यादिना । १४० अथ पलभाज्ञानं वक्तव्यम् । ततः पञ्चज्यासाधनम् । ततो लङ्कातः सौम्यदेशे मनुष्यप्रचारं यावद्दिनरात्रिप्रमाणमुक्तम् । ततः चरसंस्कारः । ततो भुजान्तरकर्मार्थं लङ्कोदयसाधनम् । अथ भुजान्तरमुदयान्तरं चोक्तम् । एतावता स्पष्टग्रहसाधनं कृतम् । ततो धर्मशास्त्राद्युपयुक्तं तिथिसाधनं नक्षत्रयोगकरणज्ञानं चोक्तम् । दृक् सिद्धयर्थं ब्रह्मगुप्तम- तेन न तत्कर्मोक्तम् । ग्रहस्य तात्कालिकीकरणम् । ततस्तिथ्यन्तपूर्णान्तकाले रविचन्द्रा- न्तरप्रतिपादनम्। ततः फलादेशार्थं सूक्ष्ममानयनम् । ततः सन्धिकालप्रतिपादनम् । एतस्योपपत्तिर्भाष्ये स्पष्टा ॥ ४२-७७ । १. क्षितिजोष्ट ....इति क ख पु० क्षितियोष्टम... इति गपु० च । १. चारादि गपु० ।