पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः विशुद्धसंख्यानि गतं तु शेषमशुद्धभोगात् पतितं तदेष्यम् । गतागते षष्टिगुणे विभक्ते ग्रहस्य भुक्त्या घटिका गतैष्या ॥७५ | वा० भा० – इह यन्नक्षत्रानयनं कृतं तत् स्थूलं लोकव्यवहारार्थमात्रं कृतम् । अय पुलिशवसिष्ठगर्गादिभिर्यद्विवाहयात्रादौ सम्यक् फलसिद्धयर्थं कथितं तत् सूक्ष्ममिदानीं प्रवक्ष्ये । तत्र षडध्यधंभोगानि | विशाखापुनर्वसुरोहिण्युत्तरात्रयम् । अथ षडधंभोगानि । आश्लेषा स्वाती भरणी ज्येष्ठा शतभिषक् । एभ्य: शेषाणि पञ्चदशैकभोगानि | भोगनमाणं तु शशिमध्यभुक्तिः ७९० । ३५ । अध्यर्धभोगः ११८५ । ५२ अर्धभोगः ३९५ । १७ । सर्वक्षंभोगैरू नितानां चक्रकलानां २१६०० यच्छेषं सोऽभिजिद्भोगः २५४|१८| अथ तत्साधनम् -- ग्रहं कलोकृत्याश्विन्यादीनां भोगान् विशोधयेत् | यावन्तः शुद्धास्तावन्ति गतभानि जानीयात् । शेषा: कला गतसंज्ञा: । ता अशुद्धभोगात् पतिता एष्यसंज्ञा: । ता गतैष्या: कला: षष्टि ६० गुणा ग्रहगत्या भक्ता गतैष्या घटिका भवन्ति । अत्रोपपत्तिराग मप्रामाण्येन ॥ ७१-७५ । इदानीं ग्रहाणां राशिसंक्रान्तिमानं भतिथिकरणयोगानां सन्धिमानं चाह - पष्टिघ्नविम्बं ग्रहभुक्तिभक्तं संक्रान्तिनाड्योऽखिलधर्मकृत्ये । रवेस्तु ताः पुण्यतमा ग्रहः स्वसंक्रान्तिगो मिश्रफलं विधत्ते ॥७६ | शशितनुविकलाभ्यश्चन्द्र भुक्त्येन्दुभान्वो- र्गतिविवरकलाभिर्भूय एताभिरेव । पृथगथ गतियुत्या नाडिका: सन्धिराप्ता भतिथिकरणयोगानां फलं तत्र मिश्रम् ।। ७७ । वा० भा० – वक्ष्यमाणप्रकारेण ग्रहबिम्बकला आनीय षष्ट्या संगुण्य ग्रहभुक्तया भजेत्, यल्लब्धं ताः संक्रान्तिनाड्य: | राश्यन्तकालात् पूर्वमर्धा उत्तरतोऽर्धा इत्यर्थाद्गम्यते । ताः संक्रान्तिनाड्यो रवेस्तु पुण्यतमाः । तथा यावत् संक्रान्तिस्थो ग्रहस्तावद्राशिद्वयोत्थं फलं करोति । एवं शशिबिम्ब विकलाभ्यो या घटिका उत्पद्यन्ते ता भतिथिकरणयोगानां सन्धिघटिकाः स्युः । सन्धौ मिश्रफलमित्यर्थः । अत्र सन्धिरुभयतोऽपि बिम्बस्य स्थितत्वात् । उपपत्तिरप्यत्र सुगमा ।। ७६-७७। इति सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे ग्रहस्पष्टीकरणं समाप्तम् । ग्रन्थसंख्या ६०० | वा० वा० – इदानीमुदयास्तभागान् गतैष्यदिवससाधनञ्चाह–प्राच्यामिति । खाक्षैरिति ।