पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते षष्ट्यधिकशतत्रयं च हरः । इदानीं हरयोवोते उत्पन्ना नखगोसमुद्राः । एवं चन्द्रस्यापि ' | तत्र परिध्यन्तरं द्विपञ्चाशत् कलाः ५२ ॥ ६८-६९ । १३८ इदानीं स्फुटग्रहस्य तात्कालिकीकरणमाह- यातैष्यनाडीगुणिता युभुक्तिः षष्टया ६० हृता तद्रहितो युतश्च । तात्कालिकःस्यात् खचरःशशीनौ तिथ्यन्त एवं समलिप्तिकौ स्तः ॥७०। पूर्णान्तकाले तु समौ लवाद्यैर्दर्शान्तकालेऽवयवैगृहाद्यैः । २ वा० भा० स्पष्टम् । सनापि सुगमा त्रैराशिकेन ।। ७० । इदानीं सूक्ष्मनक्षत्रानयनमाह- स्थूलं कृतं भानयनं यदेतज्ज्योतिर्विदां संव्यवहारहेतोः ॥७१। सूक्ष्मं प्रवच्येऽथ मुनिप्रणीतं विवाहयात्रादिफलप्रसिद्धथै । अध्यर्धभोगानि १९८५ । ५२ षडत्र तज्ज्ञाः प्रोचुवंशाखादितिभध्रुवाणि ॥ ७२ । षडर्धभोगानि च ३९५ । १७ भोगिरुद्र- वातान्तकेन्द्राधिपवारुणानि । शेषाण्यतः पञ्चदशैँकभोगा- न्युक्तो भभोगः शशिमध्यभुक्तिः ७९० । ३५ ।। ७३ । सर्वर्क्षभोगोनितचक्रलिप्ता वैश्वाग्रतः स्यादभिजिद्भभोगः । कलीकृतादिष्टखगाद्विशोध्य दास्रादिभोगान् गतभानि विद्यात् ।।७४ | १. त्रिज्यातुल्यया नतभागज्यया १२० इदं परिध्यन्तरं भागात्मकं तदेष्टया किमिति । अत्र त्रिज्यायाः षष्टिगुणाया द्विपञ्चाशतापवर्ते कृत इष्टनतज्याया हरो लभ्यते । इष्टनतज्या दं स्फुटपरिघ्यन्तरम् । यदि जिनकलोनरदै: ३१ |३६ परिधिभागैरिदं फलं लभ्यते तदा स्फुटपरिघ्यन्तरेणानेन डेट किमिति । अत्रापि हरयोर्घातो हरः स्यादिति जाताः क्वङ्गाग्निवेदाः ४३६१ । २. अत्र लल्लः -- मासान्ते रविशशिनौ समौ भवेतां पक्षान्ते लवकलिकाविलिप्तिकाभिः । अन्यस्यामपि च तिथौ सदावसाने तुल्यौ स्तः खलु कलिकाविलिप्तिकाभिः ॥ ( शि० धी० ग्र० ग० स्प० २७ श्लो०) ।