स्पष्टाधिकारः ग्रापश्चिमस्थस्तरणिर्विधुः प्रागृणे फले युक्त इतोऽन्यथोनः । मुहुः स्फुटातो ग्रहणे रवीन्द्वोस्तिथिस्त्विदं जिष्णुसुतो जगाद१ ॥६८| वा० भा० – चन्द्र ग्रहेऽकंग्रहे वा यास्तिथ्यन्ते नतनाड्यस्ता रस ६ गुणा नतभागा भवन्ति । तेषां लध्वी दोर्ज्या साध्या । तयार्कशीतांशुभुजफले गुण्ये । अर्कस्य नखगोसमुद्रश्च- न्द्रस्य क्वङ्गाग्निवेदैर्भाज्ये | यदि फले अंशाद्य गुणिते तर्ह्यशाद्या लब्धिग्रा | यदि कला तह कलाद्या तेन लब्धफलेन प्राक्कपालस्यो रविर्हीनः कार्य: । यदि पश्चिमस्थस्तदा युक्तः । विधुस्तु प्राक्कपालस्थे ॠणे च फले वर्त्तमाने युक्तः कार्य: । अतोऽन्यथा प्राक् पश्चाद्वा होन एव । अतः पुनस्ताभ्यां तिथि: । पुनर्नतकर्म च यावदविशेषः । इदं जिष्णुसुतो जगादेति । एतदागमप्रामा- ण्येनास्माभिलिखितमित्यर्थ: । चतुर्वेदाचार्येणाप्युपलब्धिरेव वासनेत्यभिहितम् । यदीद्श्युपलब्धि- रस्ति तदास्माभिः किं नाङ्गोकर्तव्यमिति भावः । अथ ब्रह्मगुप्तोक्तमुच्यते-- अत्र त्र्यंशोनःश्चतुर्दश नीचोच्चवृत्तपरिधिभागा रवेः पठिताः । यथा ये जिनकलोनरदा हिमांशोस्ते याम्योत्तरमण्डलस्थस्यैव | रवेर्मध्याह्रस्थस्य परिधिभागा ऋणे फले प्रागुन्मण्डलस्थस्य कला विशत्यधिकाः पश्चादूनाः । धनफले तु प्रागूना: पश्चादधिकाः । पू म प ऋणफले १४ १३ १३ 0 ४० २० धनफले पू म १३ १३ १४ २०४०० २. अथ चन्द्रस्य मध्याह्नस्थस्य परिधिभागा: प्रागुन्मण्डलस्थस्य ऋणे वा धने वा फले द्विपञ्चाशता ५२ कलाभिरूनाः | पश्चादृणे फले ताभिः कलाभिः ५२ युताः धने तु ताभिरूनाः । ऋण कले पू म प ३० ३१ ३२ ४४३६ २८ धनफले १३७ पू म प ३० ३१ ३० ४४ ३६ ४४ अवान्तरे त्वनुपातात् परिधिभागानानीय तैः स्फुटीकरणं कृत्वेदानों तत्संस्कारः क्रियते । तत्रानुपात: | यदि त्रिज्यातुल्यया नतभागज्यया भागत्र्यंश परिध्यन्तरं तदेष्टया किमिति । अत्र नतभागज्याया भागत्र्यंशो गुणस्त्रिज्या हरः १२० एवं कृते सति नतज्यायाः षष्ट्यधिकशतत्रयं भागहार: । फलं स्फुटपरिध्यन्तरम् । अथान्योऽनुपात: । यदि त्र्यंशोनैश्चतुर्दशभिः परिधिभाग- रिदं फलं लभ्यते तदा स्फुटपरिघ्यन्तरेण किमिति । अत्र फलस्य नतज्या गुण: परिध्यंशाः १ तथाच ब्रह्मगुग्त:-- तयुदलपरिध्यन्तगुणा हृता त्रिज्यया स्वनतजीवा । ऊने धनमृणमधिके दिनार्धपरिधी स्फुट परिधि || (ब्रा०स्फु०सि० २ अ २२ श्लो. ) मन्दफलमित्यर्थः । सि० - १८
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१८२
दिखावट