पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते पदमध्ये राशित्र्यं भवति । तद्दोज्यंया लध्व्या षड्विंशत्या चानुपात: । यदि खार्कमितया दोर्ज्यंया षड्विंशतिर्लभ्यते तदाभोष्टया किमिति । अत्र षड्विंशत्या खार्का अपवर्तता गुणकस्थाने रूपम् १ हरस्थाने सार्धारचत्वारः । फलं पानीयपलानि । पुनरन्योऽनुपात: । यदि पानीपल- षष्टया गतिकलातुल्या विकला लभ्यन्ते तदैभिः किमिति । पूर्वं लध्वी दोर्ज्या गुणः सार्धारच- त्वारो हरः । इदानीं षष्टिहंरः । अतो ग्रहगतेर्दोर्ज्या गुणः । हरयोर्घातो हरः खनगाश्विन २७० इत्युपपन्नम् । ओजपदेऽसवः कलाभ्य ऊमा एव भवन्ति, अतस्तत्र ऋणम् | युग्मपदे त्वधिका अत- स्तत्र धनम् ॥ ६५ । इदानीं तिथिकरणभयोगानां साधनमाह - -- रवि १२ रसैः ६ विरवीन्दुलवा हृताः फलमितास्तिथयः करणानि च । कुरहितानि च तानि बवादितः ग्रहकलाः सरवीन्दुकला हृताः खखगजैश्च ८०० शकुनितोऽसितभूतदलादनु ||६६ | भयोगमिति क्रमात् । अथ हृताः स्वगतैष्यविलिप्तिकाः स्वगतिभिश्च गतागतनाडिकाः ||६७ | वा० भा० व्यकॅन्दोर्भागा द्विष्ठाः । एकत्र रविभिर्भाज्यास्तत्र फलं गतास्तिथयः । अन्यत्र रसैर्भाज्याः । फलं गतकरणानि । तानि त्वेकोनानि बवादितो भवन्ति । कृष्णचतु दंश्यर्धा- दुपरि यान्यवशिष्यन्ते त्रीणि चतुर्थं प्रतिपत्प्रथमार्धे च । एतानि चत्वारि शकुनितः । शकुनिच- •तुष्पदनार्गास्तुघ्नानीति शेष: । यस्य ग्रहस्य नक्षत्रं ज्ञातुमिष्यते तस्य कला: कार्या: । तथा चन्द्राकंयोगस्य कलाः कार्याः । उभयत्र शताष्टकेन ८०० हृते प्रथमस्थाने गतभानि द्वितीयस्थाने गतयोगाः । अथ यान्यवशिष्टानि तानि गतानि तानि स्वस्वहरच्युतानि गम्यानि स्थुः । तेषां गतानां सम्बन्धिन्यो विकलाः स्वस्वगतिभिर्भाज्या: । यल्लभ्यते ता गतघटिका भवन्ति । यद्येष्याणां विकला भक्तास्तदेष्या घटिका भवन्ति । अत्रोपपत्तिः–यदि व्‍केंन्दोश्चकांश: ३६० त्रिंशत् ३० तिथयो लभ्यन्ते तदैभिः किमि - ति । अत्र त्रिशतापवर्तिते हरे जातो द्वादश हरः । अथ यदि चक्रांश: ३६० करणानि लभ्यन्ते तवैभि: किमिति । अत्रापि षष्ट्यापवर्तिते जातो हरः षण्मितः । अथ यदि चक्रकलाभि: २१६०० सप्तविंशतिर्भानि लभ्यन्ते योगा वा तदाभिः किमिति । अत्रापि सप्तविंशत्यापवर्तने कृते जातोऽष्टशती हर उभयत्र । अथ घटोकरणार्थमनुपात: । यदि गतिकलाभिः षष्टिघटिका लभ्यन्ते तदा गतैष्याभि: किमिति फलं गतैष्या घटिका: । अथ कलाः षटचा गुणिता विकलाः स्युरित्यत उक्तम् 'अथ हृताः स्वगतैष्यविलिप्तिकाः' इति सर्वमुपपन्नम् ॥ ६६-६७ । इदानीं नतकर्माह - तिथ्यन्तनाडीनतबाहुमौर्व्या लव्यार्कशीतांशुफले विनिघ्ने क्रमेण भक्ते नखगोसमुद्रैः ४९२० क्वङ्गाग्निवेदैः ४३६१ फलहीनयुक्तः।