पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः इदानीं येऽस्योदयान्तरस्य वासनां न बुध्यन्ति तेषां प्रतीत्यर्थमन्यदप्याह- चेत स्वोदयैः स्फुटरवेरसवः कृतास्ते विश्लेषिताश्च यदि मध्यरवेः कलाभिः । बाहुन्तरा ख्यमुदयान्तरकं चराख्यं कर्मत्रयं विहितमौदयिके तदा स्यात् ।। ६४ | वा० भा० – यदि स्फुटरवे: स्वोदयेन भुक्तासवः कृता मेषादिस्वोदयैश्च युतास्तेषामसूनां मध्यमार्ककलानां च यदन्तरं तेन भुक्तिर्गुणिता धुनिशासुभिर्भक्का । यद्यसवोऽधिकास्तदा फलं ग्रहे स्वमन्यथा ऋणम् । एवं कृते सति भुजान्तरमुदयान्तरं चराख्यं च कमंत्रयमपि कृतं स्यादौदयिके ग्रहे || ६४ । इदानीं प्रकारान्तरेणौदयिककर्माह -- १३५ मध्याद्रवेरयनभागयुताद्विनिघ्नाद् दोर्ज्या लघुर्गतिगुणा खनगावि २७० भक्ता | स्वर्णं ग्रहे युगयुजोः पदयोर्विलिप्ता- • स्वेवं स्फुटं खलु भवेदुदयान्तरं वा ।। ६५ । वा० भा० – मध्यमार्कस्य सायनांशस्य द्विगुणितस्य या लघुखण्डकैर्दोर्ज्या तथा गुणिता ग्रहगतिः खसप्तयमैः २७० हृता फलं विकलादि ग्रहे धनम् । एवं युग्मपदस्थितेऽकें । अयुग्मपद- स्थिते त्वृणम् । अत्रोपपत्ति:-- क्रान्ति वृत्तस्य चत्वार्यपि पदानि पृथक् पृथक् पञ्चदशभिः पञ्चदशभिर्घटि- काभिरुद्गच्छन्ति । परं नैकंको राशिः पञ्चभिरत उदयान्तरकर्म पदमध्यं यावदुपचीयते । अत एव पदान्तेषु तस्याभाव । पदमध्येषु परमता । यदत्र निरक्षोदयैः कर्म दर्शितं तद्बालावबोधा- थंम् । तत् स्थूलम् | उदयानां स्थूलत्वात् । अत एवार्यभटादिभिः सूक्ष्मत्वार्थं दृक्काणोदयाः पठिताः । इदमुदयान्तरं कर्म यथा सम्यग्भवति तथोच्यते । मध्यमार्कस्य सायनांशस्य दोज्यां धुज्यां च कृत्वा तया युज्यया सा दोर्ज्या भाज्या मिथुनान्तधुज्यया गुणनीया | तस्या धनुषो येऽसवस्तैर्मंध्यमाकंस्य सायनांशस्य भुजकला ऊना: सत्यः स्फुटा अन्तरासवो भवन्ति । तैरुदयोऽन्तरित इत्यर्थः । एवं पदमध्ये षड्विंशतिः २६ पलानि किञ्चिदधिकानि भवन्ति । तानि ज्याप्रकारेण साधयितुम द्विगुणित: । द्विगुणितस्यार्कंस्य यावद्भुजः क्रियते तावत् १. अत्र बापूदेवः - मध्यात् खरांशोरयनांशयुक्ताद्विघ्नाद्भुजज्या बृहती विनिघ्नी । परापमव्यस्तगुणेन दृग्घ्न्या ग्रुजीवयाप्ता ग्रहभुक्तिनिघ्नी ॥ हुता छुरात्रासुभिराप्तलिप्ता ग्रहे विधेयाः स्वमृणं क्रमेण । सहस्ररश्मौ युगयुक्पदस्थे सुसूक्ष्ममेवं ह्युदयान्तरं स्यात् ||