१३४ सिद्धान्तशिरोमणौ ग्रहगणिते बा० भा० – अर्कस्य यद्भुजफलं यस्मिन् राशौ रविवर्तते तस्य राशेः सम्बन्धी यो निरक्षो- दयस्तेन तद्गुणितं राशिकलाभिः १८०० भक्तं, पुनर्ग्रहगत्या गुणितमहोरात्रासुभिः २१६५९ भक्तं यत् फलं तद्ग्रहेऽर्कंबद्धनणं कार्यम् । यद्यर्कस्य भुजफलं धनं तदा सूर्यस्यान्येषां च धनम् । यदि ऋणं तदा ऋणमित्यर्थः । अत्रोपपत्तिः– ये मध्यमाकौंदयिकास्ते स्फुटादयिकाः क्रियते । तत्रार्कफलस्यासुकरणे- अनुपात: । यदि राशिकला १८०० निरक्षोदयासुभिरुद्गच्छन्ति तदा फलकला: कतभिरिति । लब्धं भास्वत्फलोत्था असवो भवन्ति । अथान्योऽनुपात: । यदि धूनिशासुभिर्गतिकला लभ्यन्ते तदैभिः किमिति | ताः कला अतो ऋणं धनं यतो मध्यमार्केर्कोदयात् प्राक् स्फुटार्केर्कोदय. स्यादृणे तत्फले स्वे यतोऽनन्तर मित्युपपन्नम् ||६१॥ इदानीमुदयान्तरमाह- युक्तायनांशस्य तु मध्यमस्य भुक्तासवोऽर्कस्य निरक्षदेशे । मेषादिभुक्तोदयसंयुता ये यचायनांशान्वितमध्यभानोः ||६२ | लिप्तागणस्तद्विवरेण निघ्नी गतिर्ग्रहस्य निशासुभक्ता । स्वर्णं ग्रहे चेदसवोऽधिकोना इदं ग्रहाणामुढ्यान्तराख्यम् ।।६३। वा० भा० - मध्यमार्कस्य सायनांशस्य ये राशेर्भुक्तभागास्तैस्तदुदयं निरक्षदेशीयं संगुष्य त्रिशता विभजेत् फलं तस्य राशेभुक्तासवः । अथ मेषाद्या येऽकेंण भुक्ता राशयस्तेषां च निरक्षो- दयासवस्तत्र योज्यास्ते मेषादिभुक्तोदयासवः स्युः । अथ मध्यमार्कस्य सायनांशस्य कला: कार्या: । तासां कलानां तेषामसूनां च यदन्तरं तेन ग्रहगतिगुण्या युनिशासुभिर्भाज्या लब्धाः कला ग्रहे धनं कार्या: । यदि कलाभ्योऽसवोऽधिकाः स्युः । यदि न्यूनास्तदा ऋणम् । अत्रोपपत्ति:~-इह यः पूर्वमहर्गणः कृतः स मध्यमसावनमानेन स्फुटसावनस्य चल- स्वात् । रविमध्यगति कलातुल्यासुभि: सहिता नाक्षत्रा: षष्टिघटिकाः ६० । ५९ । ८ । इदं मध्यममर्कसावनम् । ता गतिकला यैरसुभिरुद्गच्छन्ति तद्युताः षष्टिघटिका: स्फुटसा- वनम् । तच्चलम् । प्रत्यहं गत्यन्यत्वात् तिमासं राश्युदयान्यत्वाच । तादृशोऽहर्गणः कर्तुं नायातीति मध्यमः कृतः । तेन सम्पगदये ग्रहा न भवन्ति । कदाचिदकोंदयात् प्राक कदाचिदनन्तरम् । अत एव प्रागुक्तम्- दशशिर : पुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः । इति । अथ स्फुटमध्याहगंणयोरन्तरानयनम् -- मेषादेरारभ्य येऽर्कभुक्ता राशयस्ते ईरसुभिरुद्गच्छन्ति त एकीकृताः | तावत्यस्वात्मके काले भदिनान्तादूर्ध्वमहर्गणेन भवितव्यम् । अथ च मेषादिभुक्तकलातुल्येऽन्तरे कृतः । अतोऽसूनां कलानां च यदन्तरं तावद्भिरसुभिरहगंणोऽन्तरितः । यद्यहोरात्रासुभिर्ग तिर्लभ्यते तदै भिरन्तरासुभिः किमिति । फलं ग्रहेषु स्वं यद्यसवोऽधिकाः । अन्यथा ऋणमित्येतदुक्तं युक्तमेव ।। ६२-६३ |
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१७९
दिखावट