पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १३३ उदेति राशिः समयेन येन तत्सप्तमोऽस्तं समुपैति तेन ॥ ५९॥ वा० भा० – अत्र धनुःकरणे जीवानां स्थूलत्वाद्वितीयतृतीयावृदयौ नान्यैः सम्यक् पठितौ । अत्र प्रथमप्रकारेण प्रथम उदयो गृह्यते। द्वितीयप्रकारेण द्वितीयतृतीयौ। शेषं स्पष्टार्थम् । अत्रोपपत्तिः– निरक्षस्वदेशादययोरन्तरं चरम् । निरक्षे स्वदेशे च मेषादि: सममुदेति । मेषान्त आदौ स्वक्षितिजे, तत उन्मण्डले लगति । अतश्चरखण्डोनो मेषोदयः स्वदेशोदयो भवति । एवं वृषमिथुनयोरपि । कर्यादौ तु चरखण्डानामपचोयमानत्वाद्धनं तानि परिणमन्ति । तुलादौ तून्मण्डलस्याधःस्थितत्वाच्चरखण्डानि धनं भवन्ति । मकरादौ तु चरखण्डानामपचीयमानत्वादृणं परिणमन्ति । इत्यादि गोले सम्यग्विलोक्यते ॥५८-५९॥ इदानों नैपुण्यमाह - क्षेत्राणां स्थूलत्वात् स्थूला उदया भवन्ति राशीनाम् । सूक्ष्मार्थी होराणां कुर्यादृक्काणकानां वा ॥६० | । वा० भा० - यथा राश्युदया: साधितास्तथा होरोदया अपि साध्याः । तद्यथा-पञ्च- दशादिपञ्चदशभागोत्तरभागानां ज्या होराज्या: षड् भवन्ति । ताभिमिथुनान्तयुज्या ३१४१ पृथक् पृथग्गुण्या स्वस्वद्य ज्यया भाज्या | फलानां धनूष्यधोऽधः शुद्धानि । षष्ठात् पञ्चमं, पञ्चमा- च्चतुर्थमित्यादि । शेषाणि होरोदयासवो भवन्ति । एवं दशादिदशोत्तर भागद्रेष्काणोदया भवन्ति । ते च नव । तथा होरांशानां षट् चराणि यान्यधोऽध: शुद्धानि तानि तेषां चरखण्डानि । तैः क्रमोत्क्रमस्थैः क्रमोत्क्रमस्था ऊनयुताः सन्तः स्वदेशे हारोदया भवन्ति । मेषादीनां द्वादश । ते च व्यस्तास्तुलादीनाम् । एवं चतुर्विंशतिः २४ । एवमेव दृक्काणोदया: षट्त्रिंशत् । तथा चाकंस्थ सायनांशस्य भागा: पञ्चदश १५ हृता गतहोराः स्युः । शेषांशास्ते भुक्तास्ते पञ्चदशभ्यः शुद्धा भोग्यांशाः स्थुः | भाग्यांशघ्नः स्त्रदेशहोरोदय: पञ्चदशहृतः फलं भोग्यासव: स्युस्ता- निष्टासुभ्यो विशोध्य तदग्रतो होरोदयांश्च शोधयेत् शेषं पञ्चदशगुणमशुद्धहोरोदयेन भजेत् । फलं लवा: । अशुद्धपूर्वाणां होरोदयानां संख्यथा गुणितैः पञ्चदशभिर्युताः सन्तो लग्नस्यांशा भवन्ति । एवं लग्नात् कालसाधनेऽपि । एवमेव दुक्काणोदयैरवि लग्नसाधनम् । तत्र पञ्चदश- स्थाने दश १० गुणने भजने च कल्प्याः । एवं होरोदयैदृक्काणोदयैर्वा साधितं लग्नादिकमुद- यान्तर राख्यं कर्म च सूक्ष्मं भवति । अन्यथा स्थूलम् ॥६० 1 इदानीं भुजान्तरमाह- ० भानोः फलं गुणितमर्कयुतस्य राशेर्व्यक्षोदयेन खखनागमही १८०० विभक्तम् । गत्या ग्रहस्य गुणितं युनिशासुभक्तं स्वर्णं ग्रहेऽर्कवदिदं तु भुजान्तराख्यम् ।।६१। १. अत्रार्यभटः । द्रेष्काणज्याः सर्वा मिथुनान्तद्य ज्यया निघ्न्यः । स्वस्वद्युज्याभक्तास्तच्चापकला भवन्त्यसवः ॥