पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते ! अत्रोपपत्तिः– क्रान्तिवृत्ते वृषभान्ते सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं कोटान्नी निबध्यते, तस्य सूत्रस्यार्धमेकर | शेर्ज्या भवति । एवं सूत्रस्यैकमग्रं मेषान्ते बद्ध्वा द्वितीयं सिहान्ते तस्य सूत्रस्याधं राशिद्वयस्य ज्या भवति । एवं मेषतुलादौ बद्धसूत्रस्याधं त्रिज्या | एता एव वृषभान्त- मेषान्त मीनान्ताहोरात्र वृत्तपरिणतानां चापान्तराणि बोटादिकानामुदया भवन्तीति गोले प्रदर्शयेत् ॥५६॥ इदानीं पुनः प्रकारान्तरेणाह- मेषादिजीवास्त्रिगृहद्युमौर्व्या चापीकृताः प्राग्वदधो वा० भा० – स्वष्टार्थमिदम् । अस्योपपत्तिर्गोले कथितैव सुगमा च ॥ ५७॥ अथ निष्पन्नांस्तानसूनाह- १३२ ३१४१ क्षुण्णा हृताः स्वस्वदिनज्यया वा । विशुद्धा मेषादिकानामुदयासवः स्युः ||५७॥ तेऽभ्राद्रिभूषा १६७० गुणगोद्रि चन्द्राः १७९३ सप्ताग्निनन्देन्दुमिता १९३७ अथैते । क्रमोत्क्रमस्थाचरखण्डकैः स्वैः क्रमोत्क्रमस्थैच विहीनयुक्ताः ॥ ५८ । मेषादिषणणामुदयाः स्वदेशे तुलादितोऽमी च विलोमसंस्थाः । २ १. अत्र लल्ल:- ते चासवो गगनभूधरषट्कचन्द्राः पञ्चाङ्ङ्कसप्तशशिनोक्षगुणाङ्कचन्द्राः । व्यस्तास्तथा निजचरार्धविहीनयुक्ताः षण्णां क्रमात् स्वविषये पुनरुत्क्रमाच्च । ( शि० धी० ग्र० ग० त्रि० ९ इलो० ) सूर्यसिद्धान्ते - खागः ष्टयोऽर्थगोगंकाः शरत्र्यमहिमांशवः ॥ २. अत्र बापूदेवोक्तं लङ्कोदयनिरपेक्षमाद्यपदे स्वदेशोदयसाधनम् - अक्षज्यका च त्रिगृहधुजीवा चंते पृथक् त्रिज्यकया विनिधन्यौ । मेषादिराश्युत्थदिनज्ययाप्ते तच्चापमागान्तरजातमौर्व्याः ॥ मेषादिराशिज्यकया हताया लम्बज्ययाप्तस्य धनुःकला याः | ता एव मेषाद्यदयासवः स्युः स्वदेशजाश्चाद्यपदे किलेवम् || शा० बापूदेवोक्तं द्वितीयपदे स्वदेशोदयसाधनम् - तच्चापभागान्तरजात मौर्वीस्थाने तु तच्चापलवैक्यमौर्वी । कार्या ततश्चोक्तवदेव कुर्याद्भवेयुरेवं ह्युदयाख्यभागाः ।। अस्मिन्पदेऽब्धिद्विकलाधिकाक्षाशुगांशतश्चाभ्यधिकाक्षदेशे । ये स्युद्वितीयोदयचापभागास्तदुनिता : खेभभुवो विधेयाः ।। सर्वत्र या स्याच्चरमोदयज्या कार्यास्तदुत्योदयभागहीनाः । खाष्टेन्दवस्ते ह्युदयाख्य भागास्तेषां कलाः स्वोदयजासवः स्युः || मेषादिराशित्रितयस्य ये ते क्रमेण कन्याहरिकर्कटानाम् । ज्ञेयं बुधव्यक्षपुरोदयानां ज्ञानं विना स्वोदयसाधनं हि ॥