पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः पपत्ति:- ये लङ्कोदयकालिकास्ते स्वोदयकालिकाः क्रियन्ते । अत्र तदुदययोमंध्ये चरकाल: । ततोऽनुपात: यद्यहोरात्रासुभिः २१६५९ गतिकला लभ्यन्ते तदा चरासुभिः किमिति । फलकलाभिरूनो ग्रह उत्तरगोलस्थेऽकेंऽतः क्रियते यतस्तत्र लोदयात् प्राक् स्वोदयः । यल्लङ्कायां क्षितिजं तदन्यदेश उन्मण्डलम् । अत उन्मण्डलादधःस्थे क्षितिजे ऋणम् । दक्षिणगोले तूपरिस्थिते धनम् । अस्तकाले त्वस्माद्विपरीतम् । यतस्तत्रोन्मण्डलं प्राप्य पश्चात् क्षितिजं प्राप्नोति रवि- रुत्तरगोले दक्षिणगोले त्वादावेव एवं सर्वमुपपन्नमित्यादि वासना गोले सम्यगभिहिता । इह संक्षिप्तोक्ता ॥५३॥ अथ लङ्कोदयसाधनमाह - एकस्य राशेबृहती ज्यका या द्वयोस्त्रिभस्यापि कृतीकृतानाम् । स्वस्वापमज्याकृतिवर्जितानां मूलानि तासां त्रिगुणा ३४३८ हतानि ॥५४॥ स्वस्वद्युमौर्व्या विभजेत् फलानां चापान्यधोऽधः परिशोधितानि । क्रमोत्क्रमस्थानि निरक्षदेशे मेषादिकानामुदयासवः स्युः ॥५५॥ वा० भा० – एकस्य राशेबृंहती ज्येत्यष्टमी ज्या | द्वयोरिति षोडशी ज्या । त्रिभस्येति त्रिज्या | आसां वगितानां स्वकीयस्वकीयक्रान्तिज्यावर्गेवतानां मूलानि त्रिज्यागुणितानि स्वस्व ज्यया विभजेत् । फलानां चापान्यधोऽधः परिशोधितानीति तृतीयात् द्वितीयं, द्वितीयात् प्रथमं शोध्यम् । प्रथमं तथाविधमेव । एवं लङ्कोदयासवः स्युः । अत्रोपपत्तिः—अत्रोद्गच्छतः क्रान्तिवृत्तस्य तिर्यक स्थितत्वात् त्र्यस्त्राणि क्षेत्राण्युत्पद्यन्ते । तद्यथा-मेषान्तस्य ज्या क्रान्तिवृत्ते कर्णः । तत्क्रान्तिज्या लङ्काक्षितिजे भुजः । तद्वर्गान्तरपदं मेषान्तेऽहोरात्रवृत्ते कोटि: । एवं राशिद्वयस्य ज्या कर्ण: । तत्क्रान्तिज्या भुजः । तद्वन्तरपदं वृषभान्तेऽहोरात्रवृत्ते कोटि: । एवं त्रिराशिज्या कर्णः । परमा क्रान्तिज्या भुजः | परमाल्पयुज्या कोटि: । एताः कोटयश्चापकरणार्थं त्रिज्यावृत्ते परिणामिता: | त्रिज्यागुणा: स्वस्वधुज्यया भक्ता- स्तासां चापानि । प्रथमं मेषोदयस्य काल: । द्वितीयं राशिद्वयस्य । तृतीयं राशित्रयस्य । अतो विश्लेषितानीत्युपपन्नम् ॥५४-५५॥ इदानों प्रकारान्तरेणाह- कीटादिराश्यन्तजकोटिजीवात्रिज्या ३४३८ गुणाः स्वस्वदिनज्ययाप्ताः । चापीकृताः प्राग्वदधो विशुद्धाः कीटादिकानामुदयासवो वा ॥५६॥ वा० भा० - कीटादिराश्यन्त ज कोटिजीवास्ता एकद्वित्रिराशिज्या भवन्ति १७१९२९ ७ | ३४३८ । एतास्त्रिज्यया गुण्याः स्वस्वदिनज्यया भक्ता इति । यैव वृषभान्ते द्युज्या सैव कीटान्ते- sपि ३२१८ | यैव मेषान्ते युज्या सेव सिंहान्तेऽपि ३३६६ | कन्यान्ते युज्या त्रिज्यैव ३४३८ । आभिस्ता भाज्याः फलानां चापान्यधोऽधः शुद्धानि कोटादीनामुदयासवः स्युनिरक्षे वा । त एव मिथुन वृषभमेषाणामित्यर्थः ।