पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते पलप्रभा तोयपलात्मकानि स्थूलानि वा स्युश्चरखण्डकानि । स्थूलं चरं चाम्बुपलात्मकं तैस्तत्प्राणचापं यदि वापि सूक्ष्मम् ॥५१॥ वा० भा० - अथवा तच्चरं वक्ष्यमाणैस्त्रिभिः खण्डकै: स्वदेशजेलंघुज्याप्रकारेणांश मिते- दंशाप्तमित्यादिना साध्यम् । कस्मादित्याह- रविदो स्त्रिभागात् । अकंस्य सायनांशस्य यो भुज- स्तस्य यस्त्र्यंशस्तस्मादंशमितेदंशाप्तमित्यादिना । अथ खण्डकानि | मेषादिराशित्रितयस्येत्यादि सुगमम् । अथ स्थूलखण्डकैर्यच्चरं तत् स्थूलं पानीयपलात्मकं भवति । तत् षड्गुणं प्राणात्मकम् | तस्माद्यदि धनुः क्रियते तदा सूक्ष्मं चराधं स्यात् । अत्रोपपत्तिः – एकमङ्गुलं पलभां प्रकल्प्य एकद्वित्रिराशीनां पृथक् चराण्यानीय तानि षड्भिविभज्य पानीयपलात्मकानि कृत्वा यावदधोऽधो विशोध्यन्ते तावद्दिङ्नागसत्र्यंशगुणा उत्पद्यन्ते । अतोऽनुपात: । यद्य काङ्गुलया पलभयैतानि चरखण्डानि तदेष्ट्या किमिति । एवं चरखण्डानि स्युः । परं तानि ज्यात्मकानि । यतः पूर्वं स्वल्पत्वात् धनुर्नोत्पन्नम् । अत एव तत्प्राणचापं यदि वापि सूक्ष्ममित्युक्तम् । खण्डकैश्चरकरणे लघुज्यासाधनवद्वासना | तत्र लघुज्या- खण्डकानि नव, चरखण्डकानि त्रीणि, परमे राशित्रये भुजे यथा त्रोणि लभ्यन्ते तदर्थं रविवोस्त्रि- भागादित्युक्तम् ।।४८३-५१॥ इदानीं दिनरात्रिमानमाह- १३० - चरघटीसहिता रहिताः क्रमात्तिथिमिता घटिकाः खलु गोलयोः । भवति तद् युदलं निजसावनं खगुणतः पतितं रजनीदलम् ॥५२॥ वा० भा०–पञ्चदश नाड्य उत्तरगोले चरघटीभिः सहिता दक्षिणे रहिताः । एवं कृते निजसावनं द्युदलप्रमाणं भवति । यस्य ग्रहस्य घरं तस्येत्यर्थ: । दिनदलं त्रिशतो विशुद्ध रात्रिवलं भवति । अत्र वासना । उन्मण्डलयाम्योत्तरवलययोमंध्ये पञ्चदश घटिकाः । उन्मण्डलादधः क्षितिज मुत्तरगोले चरार्धकालेनातस्तदधिकाः पश्चदश घटिका: । याम्यगोले तु तदूर्ध्वमतश्च रोनास्तत्र पञ्चदश ॥ ५२ । इदानीं ग्रहाणां चरकर्माह- चरघ्नमुक्तिधुनिशास भक्ता तयोनयुक्तः खचरो विधेयः । क्रमादुदग्दक्षिणगोलगेs सूर्योदये व्यस्ततोऽस्तकाले ॥५३॥ वा० भा० - ग्रहस्य भुक्तिश्वरासुभिगुंण्याहोरात्रासुभि: २१६५९ भाज्या फलकलाभि- रुत्तरगोले ग्रहो रहितो, दक्षिणगोले सहितः । एवमौदयिको ग्रहः । यद्यस्तकालिकस्तदातो व्यस्तम् । उत्तरगोले सहितो दक्षिणगोले रहित इत्यर्थः । १. अत्र श्रीपतिः - ग्रहगतिचर खण्ड प्राणपिण्डाभिघातादहरसुभिरवाप्तं ताइच लिप्ता ग्रहेषु | धनमृणमुदये स्युर्याम्यसौम्येऽर्कंगोले न दिनरजनिमध्ये व्यस्तमस्ते विधेयम् ॥ (सि० शे० स्प० ६९ श्लो० )