पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ सिद्धान्तशिरोमणौ ग्रहगणिते 'पदे 'जुहोतीत्यनेनाहवनीये जुहोतीतिवत्' । सामान्यशास्त्रेण यः सार्वत्रिकः प्रत्ययः स बाध्यते । वस्तुतस्तु सामान्यशास्त्रं विशेषशास्त्रविषयं परिहृत्यैव प्रवर्त्तते । प्रकृते तुतात्कालिकार्केण युतस्य राशेरेतस्य चेत्सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्का- लिकतिग्मरश्मेरित्यनेन' पाक्षिकत्वं स्फुटं द्योतितमिति नित्यवच्छ्रवणमेव दुर्लभम् । नात्र सामान्यविशेषन्यायप्रसक्ति: ४ । [ "तस्मादौदयिकार्कान्नाक्षत्रघटीभिर्लग्नं साध्यमिति मूलयुक्तिः । अथान्यथोच्यते—औदयिकार्कभोग्य ] काल: शोधकः । नाक्षत्रघटीमय इष्ट- काल: शोध्य: । केवले शोधके केवलशोध्यादपनीते यावदशिष्यते तावदेवेष्टो न केवलशोधके इष्टो न केवलशोध्यादपनीतेऽवशिष्यत इति प्रसिद्धम् । राशिकलाभिरु- दयासवो लभ्यन्ते तदा गतिकलाभिः किमिति सूर्योदयद्वयान्तराले षष्टिसावनघटीनां [' तदन्तर्वतिनाक्षत्रघटीना ] मन्तरं भवति । यतो गोलेप्युक्तम्- रवि स्ततः स्वोदयभुक्तिघातात् खाभ्राष्टभिलंब्धसमासुभिश्च । समा 'गतासु संयुता रवेस्तु षष्टिनाडिका । स्फुटं धुरात्रमिति | षष्टिसावनघटीभिरेतावन्नाक्षत्रमधिकं तदेष्टसावनघटीभिः किमिति जातमिष्ट- सावनघटीनां तदन्तर्वंत्तिनाक्षत्रघटीनां चान्तरम् । इदमेवौदयिकार्कभोग्यकालतात्का- लिकार्कंभोग्यकालयोरन्तरतुल्यम् । षष्टि' घटीभिर्गतिकलास्तदेष्टसावनघटीभिः किमिति जातमौदयिकार्कतात्का- लिकार्कयोः कलाद्यमन्तरम् । द्वितीयोऽनुपातः – राशिकलाभिरुदयासवस्तदान्तरकलाभिः किमिति जात- मौदयिकार्कतात्का ( लिका ) कंभोग्यकालयोरन्तरं सावनघटीनां तदन्तर्वंतिनाक्षत्र- घटीनामन्तरतुल्यमिति प्रत्यक्षसिद्धम् । एतावदेवेष्टं कल्पितम् । इदमिष्टं नाक्षत्र- घटीभ्यो यावदपनीयते तावत् सावना इष्टघटिका: १° भवन्ति । यावदौदयिकार्क- भोग्यकालादपनीयते तावत्तात्कालिकार्कभोग्यकालो भवतीति सम्यगुक्तम् 'चेत्सावना: प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिकतिग्मरश्मेः' इति । तस्मादिष्टघटिकाः सावनास्ता- त्कालिकार्ककरणेनैवमार्क्ष्यो भवन्ति । ततो नाक्षत्रोदय' 'शोधने समजात्योरेवान्तरं भवति, ( इति ) सर्वं शोभनम् । यदप्युक्तं प्रष्टुः सावनघटीज्ञानमेव न भवतीति कथं ता लग्नार्थमिष्टघटिकाः गृहीतुं शक्यन्त इति । १. होतिघ्यग पु० । ३. रश्यरि गपु० । ५. अयमंशो ग पुस्तके नोपलभ्यते । ७. सि०शि० गो० मध्य० ५ श्लो० । ९. घटिभि इति क ख ग पु० । ११, शोध्यने गपु० । समाध्यवे इति ग पु० । प्रशक्ति इति क ख पु० । ६. कोष्ठान्तर्गंतोंऽशो ग पुस्तके नास्ति । ८. मि० शि० गो० मध्य० ६ श्लो० । १०. भवतीति ग पु० २. ४.