पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १२७ वा० भा० – यादृशे केन्द्रे गतिः पूर्णं भवति तादृशस्य केन्द्रस्य भागा: सुथार्थं पाठेन पठिना: । यतो वक्रारम्भे वक्रत्यागे च गतिः पूर्णं भवति । अतश्चक्राच्च्युतास्तेऽवक्रभागा भवन्ती- त्युपपन्नम् | मार्गभागाः १९७ १२१५ / २३५।१९५२४७ ॥४१॥ वा० वा०— इदानीं वक्रतासंभवमाह—द्राक्केन्द्रभागैरिति । यादृशैः केन्द्रभागै- गतिः शून्यं भवति ते सुखार्थमुक्ताः । यतो वक्रारम्भे तत्त्यागे च गतिः शून्यमिति छेद्यकादौ प्रत्यक्षं दृश्यते ॥ ४१ ॥ इदानीमुदयास्त संभव माह-- प्राच्या मुदेति क्षितिजोऽष्टदस्रैः २८ शः १४ गुरुः सप्तकुभिश्च १७ मन्दः१ । स्वस्वोदयांशोनितचक्रभागैं-३३२ । ३४६ । ३४३ । स्त्रयो व्रजन्त्यस्तमयं प्रतीच्याम् ॥४२॥ खाक्षैः ५० जिनैः २४ ज्ञसितयोरुदयः प्रतीच्या- मस्तश्च पञ्चतिथिभिः १५५ मुनिसप्तभूभिः १७७ । प्रागुद्गमः शरनखैः २०५ त्रिभृतिप्रमाणे- १८३ रस्तश्च तत्र दशवन्हिभि ३९१० रङ्गदेवैः ३३६ ॥४३॥ लब्धस्य धनुषो भागा वियदङ्कसमन्विताः । वक्रारम्भे ग्रहस्य स्युः शीघ्रकेन्द्रलवाः स्फुटाः ॥ अत्र कस्यचित् पद्ये --- तुङ्गं कार्मुकमोविकेरितशरो गत्वा निवृत्तो यथा प्राक्स्थानादपरत्र वायुवशतो गच्छत्यवेगस्तथा । कक्षावृत्तधनुर्गुणेरितखगस्तद्वच्चलोच्चं गतो नीचं याति यदा तदापरगतिर्वक्री स एवोच्यते ॥ कक्षापदच्युतखगा इव नीचसङ्गात् पूर्वात्ममार्गमपहाय चरन्ति वक्रम् । चेदित्य हो पृथुलबिम्बविलोकनं कि सर्वोऽपि रूपमखिलं विपदस्य पश्येत् ॥ १. अत्र बापूदेवोक्तं कुजगुरुशनीनां कालांशेभ्यस्तदुदय केन्द्रांशानयनम् । पूर्वं कर्णं त्रिभज्यान्त्यफलज्यैक्यं प्रकल्पयेत् । त्रिज्या कालांशजीवाप्ता हरस्तेनोद्धृतं श्रवः || आप्तिः स्याच्चलकेन्द्रस्य जीवा स्थूला ततः श्रुतिः । तस्याः केन्द्रज्यका चैवमसकृच्चेत् स्फुटा भवेत् ॥ . तस्याश्चापांशकाः शीघ्र केन्द्रांश ह्युदयाभिधाः । महीजजीवमन्दानां विज्ञेया गणकै: खलु ॥