पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी ग्रहगणिते वा० वा० – अधुना पूर्वपद्योक्तं गतिफलं दूषयति — धीवृद्धिदे चलफल मिति । अत्रापि तद्वाक्यम् - 'तद्वर्जितास्वचलतुङ्गगतिः स्वभोग्य खण्डाहता शरयमाश्विहृता हता च । स्वेन स्फुटेन गुणकेन खनागभक्ता त्रिज्याहता श्रुतिहृताशुफलं गतेः स्यादिति' । अत्र भोग्यखण्डशब्देन ग्रहकेन्द्रदोर्ज्याकरणे योग्यखण्डं तद्यदि गृह्यते तदेदं दूषणं केन्द्रे त्रिभे च नवभे गतिफलाभावः प्रसज्येत भोग्यखण्डाभावात् । एवं भोग्य- खण्डाभावे गतिफलाभावो न भवतीत्युक्तया भोग्यखण्डसत्वेऽपि गतिफलाभावो दृश्यत इति तादृशं व्यभिचारस्थलमाह - १२६ 'भावात्तथागतिफलस्य धनर्णसन्धाविति' । यत्सत्त्वे यत्सत्त्वं यदभावे यदभाव- स्तस्मादेव तत्साधयितुं युज्यते । भोग्यखण्डन्तु न तादृशमिति तस्मात्तत्साधनमनुचित- मिति भावः । अथोच्यते शीघ्रफलचापे क्रियमाणे यद्भोग्यखण्डं तद्यदि विवक्षितमिति तदप्ययु- क्तम् । बुधस्यावक्रस्थानेऽपि वक्रा गतिरायातीति महदूषणम् । तदेवाह भाष्यकार:- ऋणप्रवृत्तौ केन्द्रे राशिचतुष्टये भागेनेत्यादिना ॥ ४० ॥ इदानीं वक्रतासंभवमाह - द्राकेन्द्र भागैखिनृपैः १६३ शरेन्द्र- १४५ स्तत्वेन्दुभिः १२५ पञ्चनृप १६५ त्रिरुः ११३ । स्याद्वक्रता भूमिसुतादिकाना- २ मवक्रता तद्रहितैश्च भांशैः ३६० ॥४१॥ शीघ्रकर्ण: २९८९ । २५ शीघ्रफलज्या १२३८ । ५३ शीघ्रफलचापभोग्यखण्डम् २१० । अत्र केन्द्रभुजभोग्यखण्डस्थाने शीघ्रफलचापभोग्यखण्डस्य २१० अस्य ग्रहणे जातं गते: शीघ्रफलम् ७३ । १४ कर्कादिकेन्द्रत्वादिदं मध्यगतेः शोध्यम् । तन्न शुद्धघतीति विपरीतशोधनेन शेषम् १४ । ६ जाता वक्रगतिः । १. शि० वृ० ग्र० ग० स्प० ३९ श्लो० । २. अत्र ब्रह्मगुप्तः - अग्न्यष्टिभिरिषुमनुभिः शरसूर्येरिषुर सेन्दुमिस्त्रिभवैः शीघ्रान्त्यकेन्द्रभाग भौंमादीनां भवति वक्रम् ॥ ब्रा० स्फु० २ अ० ४८ श्लो० । तथा लल्ल: - गुणनृपतिभिर्बाणाध्येकै शिलीमुखभास्कर: शररसकुभिविश्वक्ष्मामिलं वैश्चलकेन्द्रजैः । भवति नियतं वक्रारम्भः कुजादिनभः सदां पुनरपि भवेद्वत्र त्यागश्च्युतैस्तु भमण्डलात् ॥ ( शि० धी० ग्र० ग० स्प० ४७ श्लो० ) अत्र बापूदेवोक्तो वक्रारम्भकालिकशीघ्रकेन्द्रांशाव गमकः प्रकार :- त्रिज्या कृति: खचरमध्यमभुक्तिनिघ्नी शीघ्रोच्च योगस्तयोः परफलज्यकया विभक्तः गुणितोऽन्त्यफलस्य वर्गः । शीघ्रोच्चभुक्तिखगवेगसमासहच्च ||