पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः इदानीं लल्लोक्तगतिफलस्य दूषणमाह १२५ तत्र च तद्वाक्यम् - 'त्रिज्याहता स्वचलकर्णहृताशुचाप-भोग्यज्यया विगुणिता विहृताद्यमौर्व्या | लब्धं त्यजेत्स्वचलतुङ्गगते: सदैव शेषं स्फुटा भवति वा ग्रहभुक्तिरेवम् ॥ इति ॥ अत्र केन्द्रगतिः पूर्वपद्योक्ता गृह्यते । स्पष्टगुणक इति खनागपरिणतः स्वचलप- रिधिरेवेति पूर्वपद्ये ज्ञेयम् । शेषं स्पष्टम् ॥ ३९ ॥ धीवृद्धिदे चलफलं द्युगतेर्यदुक्तं लल्लेन तन्त्र सदिदं गणकैविंचिन्त्यम् । केन्द्रे त्रिभे च नवभे च फलस्य नाशा- द्भावात् तथा गतिफलस्य धनर्णसन्धौ ॥४०॥ वा० भा० – धीवृद्धिदे तन्त्रे यद्गतेश्चलफलमुक्तं तदसत् । त्रिभे नवभे च केन्द्रे भोग्य- खण्डाभावात् फलाभाव: स्यात् । तथा धनर्णसन्धौ गतिफलाभावस्थानेऽपि फलमुत्पद्यत एव । तत्पक्षे गतिफलाभावकारणस्याभावात् । येऽत्र वासनाविदस्तै रुक्तमात्रमपोदं ज्ञायते । येऽन्ये न विदन्ति । अथवा वृथाभिमानिनस्तेषां धूलीकर्मणा प्रतीतिरुत्पाद्या । तद्यथा । भौमस्य धनर्णसन्धिकेन्द्रं साधंराशिचतुष्टम् |४|१५ शुक्रस्य विशतिभागाधिकम् | ४|२० अत्र यावदुक्तम् गतिफलमानीयते तावत् सप्तदशकला १७ भौमस्य । शुक्रस्य द्वात्रिंशत् ३२ कला आगच्छति । तदसत् । अथ स्वल्पान्त रत्वादिति चेत् तदपि न । एकत्रंशत् कला गतिः सप्तदशकला अन्तरम् । तत् कथं स्वल्पमुच्यते । अत्र केचिद्वासनाबाह्या स्वभोग्यखण्डाहतेत्या शुचापभोग्यखण्डाहतेति मन्यन्ते । एवं बुधगतिफलस्वर्णप्रवृत्तौ केन्द्रे राशिचतुष्टये भागेन कल । पञ्चकेन चाधिके ४११॥५॥ अवक्रस्थानेऽपि वक्रा गतिरायातीति सुधीभिरिदमपि विलोक्यम् ॥४०॥ १. शि० वृ० ग्र० स्पष्टा० ४५-४६ इलो० । २. अत्र बापूदेव:- भौमस्य शीघ्रकेन्द्रांशाः १३५ भुजः ४५ भुजज्या २४१३ भोग्यखण्डम् १५४ कोटिज्या २४३१ द्विद्वीन्दुद्विकुमिरित्यादिना जातः स्पष्टो गुण: ५११३५ "स्पष्टस्वस्वगुणाहते" इत्यादिना सिद्धं भुजफलम् १५६७ । २९ कोटिफलम् १५६७ । २९ स्पष्टा कोटि: १८७० | ३१ शीघ्रकणं: २४४० । २७ । अथ केन्द्रगतिः २७ । ४२ स्वभोग्यखण्डाहतेत्यादिना जातं गतेः शीघ्रफलम् १७ । १३ । एवं शुक्रस्य केन्द्रांशाः १४० भुजज्या २२०९ भोग्यखण्डम् १७४ कोटिज्या २६३२ । ४० स्पष्टो गुणः ५७ । ४२ भुजफलम् १५९३ | ४२ कोटिफलम् १८९९ । २२ स्फुटा कोटि: १५३८ । ३८ | शीघ्रकर्णः २२१५ | १४ केन्द्रगतिः ३७ स्वभोग्यखण्डाहतेत्यादिना जातं गतेः शीघ्र- फलम् ३२ । २ । एवं बुधस्य केन्द्रांशाः १२१ । ५ दोर्ज्या २९४२ | ५५ स्फुटगुणक: २९ | १७ कोटिज्या १७७४ । ११ भुजफलम् १०७७ । १४ कोटिफलम् ६४९ । २५ स्पष्टा कोटि: २७८८ ३५