पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते अथ कक्षावृत्तपरिधिस्थकरणायानुपात: – यदि कर्णाग्रे गते शीघ्रदोः फलमिदं तदा त्रिज्याग्रे किमिति, त्रिज्ययोनशे केन्द्रगतिः फलकोटिज्याकर्णान्तरगुणा शीघ्र- कर्णेन भक्ता गतेः शीघ्रफलमिति सिद्धम् । इदं फलकोटिज्यातः कर्णेऽधिके धनमूने क्षय इत्युत्पद्यते । अत्र केन्द्र भुक्तिरेकत्र फलकोटिज्यया गुणनीया अन्यत्र केन्द्रभुक्तिः कर्णेन गुणनीया | पश्चात् तयोरन्तरं यदि क्रियते कर्णेन भाज्यते तथापि पूर्वतुल्यमेव भवतीति ग्रन्थकृतावधारितम् । कर्णभक्तखण्डयोरन्तरं खण्डान्तरञ्च कर्णभक्तं तुल्यमे - वेति कर्णभक्तखण्डयोरेवान्तरं कृतम् । तत्र प्रथमखण्डे केन्द्रभुक्ति: फलकोटिज्या गुणा कर्णभक्तेति जातम् । १२४ द्वितीयखण्डे तु कर्णंतुल्ययोर्गुणहरयोर्नाशे केन्द्रगतिरेव । ततः खण्डयोरन्तरं कार्यम् । तत्र यदि फलकोटिज्यातः कर्णाधिकस्तदा पूर्वखण्डं द्वितीयखण्डात् केन्द्रगतेः शोध्यं तद्गतेः शीघ्रफलं भवति । इदं मन्दस्पष्टभुक्तौ योज्यं स्पष्टा भुक्तिर्भवति । तत्र मन्दस्पष्टभुक्तावेव पूर्वं केन्द्रगतिः क्षिप्यते तदोच्चभुक्तिरेव भवति । तस्या एव पूर्वखण्डं शोधितमिति युक्तमेव । अथ यदि च फलकोटिज्यातः कर्णो न्यूनस्तदा केन्द्रगतिः पूर्वखण्डाच्छोध्या तद्गतेः शीघ्रफलं भवति । इदं मन्दस्पष्टभुक्तेः शोध्यं स्पष्टा गतिर्भवति । तत्र 'संशोध्य- मानं स्वमृणत्वमेति स्वत्वं क्षयः' इत्यनेन केन्द्रभुक्तिर्मन्दस्पष्टभुक्तौ योजिता जाता उच्च- भुक्तिः । तस्याः पूर्वंखण्डमृणं शोधितमिति युक्तम् । पूर्वखण्डं नाम 'फलांशखाङ्कान्तर- शिञ्जिनीघ्नी द्राक्केन्द्रभुक्तिः श्रुतिहृदिति' । पूर्वखण्डस्यैव नामान्तरं स्पष्टा केन्द्रभुक्तिरिति । अतः सर्वमवदातम् । ननु धीवृद्धिदादितन्त्रेषु लल्लादिभिरपि शीघ्रफलचापभोग्यखण्डस्य स्पष्टीकरणं न कृतमिति व्यर्थोऽयमाचार्यस्य शीघ्रफलचापभोग्यखण्डस्फुटीकरणादर इत्यत आह - अत्र भोग्यखण्डस्य स्फुटीकरणफलं प्रदर्श्यते । कक्षामध्यगतिर्यग्रेखाप्रतिवृत्त- सम्पाते भुजज्यातुल्यैव फलकोटिज्या तावानेव कर्णश्च भवतीति मध्यैव गतिः स्पष्टा भवति । तत्र गुणभाजकयोस्तुल्यत्वाद् ग्रहस्य च परमफलं भवति । तत्पूर्वापरदिवसयो- रपि परममेव फलं ग्रहस्योत्पद्यत इति ग्रहफलाभावेन भाव्यमिति सर्ववादिसम्मतोऽयं पक्ष इति भावः । यथा च सौरपक्षे भौमस्य परमं शीघ्रफलं षोडशकलाधिकाश्चत्वारिंशदंशाः । दशांशैरधिकराशिचतुष्टयमित केन्द्रादर्कांशैरधिक राशिचतुष्टयमित केन्द्रं यावदिदमेव परमं शीघ्रफलं भौमस्योत्पद्यते । एवं सर्वेषामपि ग्रहाणां धनर्णसन्धौ परमशीघ्रफलान्यानीय तत्पूर्वापरदिवसयोरपि शीघ्रफलेषु साध्यमानेषु परमाण्येव भवन्तीति धूलीकर्मणा प्रती- तिरुत्पाद्या । ग्रहस्य शीघ्रफलतुल्यत्वे गतेः शीघ्रफलाभाव इति स्पष्टम् । तस्माद्भोग्य- खण्डस्य स्पष्टत्वं युक्तम् । लोक्तसूक्ष्मप्रकारेणापि धनर्णसन्धौ मध्यगतितुल्या न सम्यग् भवतीति तदुक्तस्पष्टगतिप्रतिपादकवाक्यं प्रतीकेनोपादाय दूषयति ।