पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १२३ जीवाया उपचयः । अथ तस्य भोग्यखण्डस्य स्फुटीकरणम् । यदि त्रिज्यातुल्यया कोटिज्ययाद्यं. भोग्यखण्डं तदा फलकोटिज्यया कि मिति । एवं कृत आद्यखण्डं फलकोटिज्या च केन्द्रगतेर्गुणो शरद्विदत्रास्त्रिज्या च हरौ २२५१३४३८ । अथान्योऽनुप/तः । यदि कर्णाग्र एतावदन्तरं तदा त्रिज्याने किमिति । लब्धं कक्षावृत्ते ज्यारूपं भवति । तस्य धनुःकरणेऽरूपत्वाज्जीवा न शुध्यति किन्तु शरद्विदत्रा गुण आद्यखण्डं हरः स्यात् । तथा कृते दर्शनम् । गुण: । त्रि. फलको आ. २२५ ॥ छेदः । त्रि. क. आ. २२५ अत्र शरद्विदत्रतुल्ययोस्तथा त्रिज्या तुल्यय: स्तथाद्यखण्ड- तुल्ययोश्च गुणकभाजकयोस्तुल्यत्वान्नाशे कृते केन्द्रगतेः फलकोटिज्या गुणः कर्णो हरः स्यात् । फलं तु स्फुटा केन्द्रगतिर्भवति । सा शीघ्रोच्चगतेः शोध्या । शेषं स्फुटा ग्रहगतिर्भवति । अत उक्तं फलांशखाङ्कान्त रशिञ्जिनीघ्नीत्यादि । अत्र भोग्यखण्डस्फुटीकरणस्य फलं प्रदश्यते । कक्षामध्य- गतिर्थ ग्रेवाप्रतिवृत्तसंपाते भुजज्यातुल्यः कर्णो भवति । तावतो च फलां शखाङ्कान्तरशिब्जिनी | केन्द्रगतिः । ततो मध्येवात्र गतिः स्पष्टा । अतस्तुल्यत्वाद्गुणक भाजकयोर विकृतैव अस्फुटखण्डग्रहणे । 'त्रिज्याहता स्ववलकर्णहताशुचाप- भोग्यज्यया विगुणिता विहृताद्यमौर्या । इत्यनेनाध्यानयनेन तत्र मध्यगतितुल्या सम्यग्भवतीति सर्वमत्र निरवद्यमिति भावः ॥३९॥ वा० वा० – अथ गतेः स्पष्टत्वमाह – “फलांशखाङ्कान्तरशिञ्जिनिघ्नी' इति । अद्यतनश्वस्तनशीघ्रफलयोरन्तरं गतेः शीघ्रफलम् । तत्र कक्षामध्यगतिर्यग्रेखाप्रतिवृत्त- सम्पाते गतेः शीघ्रफलाभावः । शीघ्रतुङ्गनीचप्रदेशयोः ग्रहशीघ्रफलाभावाद्गतेः शीघ्र- फलं परमम् । यस्मिन् दिने शीघ्रफलाभावो ग्रहस्य तस्मिन्नहनि शून्यराशिमितं केन्द्रं षड्रराशिमितं वा केन्द्रं भवति । द्वितोयदिवसे शीघ्रकेन्द्रगतितुल्यमेव केन्द्रं वर्द्धते । तस्माद्वितीय दिवसे केन्द्रगतितुल्य एव भुजो भवति । तस्य ज वा तत्त्वाश्वितुल्यैव । यतश्च शीघ्रकेन्द्रगतिस्तत्त्वाश्विभ्योऽल्पैव भवति । तस्मात् केन्द्रगतिरन्त्यफलज्या गुणितास्त्रिज्याभक्ता जातं नीचोच्चवृत्ते दोः फलं द्वितीयदिनजम् । पूर्वदवसे दोः फलं शून्यं भुजज्याभावात् । ग्रहदो फलयोरन्तरमेव गतेः शीघ्रदोः फलं भवति । केन्द्रभुक्तिरन्त्य फलज्यागुणात् त्रिज्याभक्तैव गतेः शीघ्रदोः फलं परमं भवतीति निरूपितम् । उच्चतुल्ये वा ग्रहे गतेः शीघ्रदोः फलं परमम् । तत्र शीघ्रफलकोटिज्याशीघ्रकर्णान्तरं परमन्त्यफलज्या तुल्यम् । यत्र कक्षामध्यगतिर्यग् रेखा प्रतिवृत्तसम्पाते गतेः शीघ्रदोः फलाभावस्तत्र फलकोटिज्याकर्णान्तराभावः । तस्माच्छीघ्रफलकोटिज्याकर्णान्तरत एव नीचोच्चवृत्तीयं गतेः शीघ्रदोः फलं साध्यते । तत्रानुपातः । यद्यन्त्यफलज्यातुल्येन फलकोटिज्याकर्णान्तरेणान्त्यफलज्यागुणिताया- स्त्रिज्याभक्तायाः केन्द्रगतेस्तुल्यं गतिदोः फलं लभ्यते तदेष्टेन फलकोटिज्याकर्णान्तरेण किमित्यन्त्यफलज्यातुल्ययोर्गुणहरयोर्नाशे केन्द्रगतिः फलकोटिज्याकर्णान्तरगुणा त्रिज्या- भक्ता नीचोच्चवृत्ते गतेः शीघ्रदोः फलं सिद्धम् । १. शि० धीवृ० ग्र० ग० स्प० ४५ इलो० ।' २. ग्रहफले पारंतरभेव इति ग पु० ।