पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी ग्रहगणिते १२२. केन्द्रगतिप्रदर्शनार्थं छेद्यको तविधिना कक्षावृत्तं प्रतिमण्डलं च विलिख्य तयोरद्यतनग्रहस्था- नोच्चस्थाने चिह्नयित्वा भूमध्यात् प्रतिमण्डलग्रहचिह्न गामिनी कर्णरेखा कार्या । रेखाकक्ष वृत्तयोः संपातेःद्यतनस्फुटो ग्रहः । यथा मध्यग्रहोच्चचिन्हयोमंध्ये मध्यमं केन्द्रमेवं स्फुटोच्चयोर्मध्ये स्फुटं केन्द्रमित्यवगन्तव्यम् । स्फुटकेन्द्र शीघ्रोच्चाच्छोषिते स्फुटो ग्रहोऽवशिष्यत इति भावः । अथ कक्षावृत्ते प्रतिवृत्ते च मध्यचिन्हात् केन्द्रगतिविलोमा देया। तदने श्वस्तनं मध्यकेन्द्रम् | अत्राप्यन्या कर्णरेखा कार्या । कक्षावृत्ते रेखोच्चयोमंध्ये श्वस्तनं स्फुटकेन्द्रन । रेखयोर्मध्ये स्फुटा केन्द्रगतिः । इह स्फुटग्रहस्थानयोरन्तरत्वात् कथमयमेव स्फुटा ग्रहगतिनं स्यादिति नाशङ्कनीयम् । यतो- ऽद्यतनकर्णरेखा केन्द्रगतिज्ञानार्थमेव रक्षिता । अन्यथा श्वस्तनग्रह उच्चे च मेषादेरनुलोमं चालिते सत्यद्यतनस्फुटग्रहाच्छ्वस्तनस्फुटोऽग्रत एव भवत्यवक्रो यदि | वक्रगतस्तु पृष्ठतः । तयो- रन्तरं सा ग्रहगतिः स्पष्टा । इयं तु केन्द्रगतिरेव । अथ तन्मानज्ञानार्थमुपायः । यथा भूमध्य द्विनिःसृता कर्णरेखा कक्षावृत्ते द्यतनमध्यग्रहात् फलतुल्येऽन्तरे लग्ना । एवं प्रतिमण्डलमध्याद्विनिःसृता रेखा प्रतिवृत्तग्रहात् फल तुल्येऽन्तरे यथा लगति तथा कृता सती कर्णसमकलया तिष्ठति । तस्याः कर्णेन सह सर्वत्र तुल्यमेवान्तरं स्यादित्यर्थः । अथ तदवधित्वेन प्रतिमण्डले फलस्य ज्याङ्कया यथा ज्याग्रं प्रतिवृत्तमध्यग्रहचिन्हे भवति । अथ केन्द्रगत्याधिकस्य च फलस्य ज्याङ्कया । तयोर्जीवयोरन्तरं कर्णसूत्रात् तिर्यग्रूपं भवति । तदत्र गणितेन ज्याकरणवासनया सिध्यति । शीघ्रफलस्य जीवायां क्रियमाणायां योग्यखण्डं तेन केन्द्र- गतिर्गुण्या । शरद्विदस्त्रैर्भाज्या | लब्धन्तु तयोर्जीवयोरन्तरं स्यात् । यतो ज्याग्रस्थेन भोग्यखण्डेन १. अत्र क्षेत्रदर्शनम् । अद्यतनकर्णः श्वसनकर्णः