पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः अथ स्थूलसूक्ष्मगंत्योरानयनप्रयोजनमाह - तत्रापि चन्द्रस्य विशिष्टम् । ‘समीपतिथ्यन्तसमीपचालनमिति' । अत्राद्यया स्थूलयेत्यर्थः ॥ ३५३-३८ ।। इदानीं गतेः शीघ्रफलमाह - फलांशखाङ्कान्तरशिञ्जिनीघ्नी द्राक्केन्द्रभुक्तिः श्रुतिहद्विशोध्या । स्वशीघ्रभुक्तेः स्फुटखेटभुक्तिः शेषं च वक्रा विपरीतशुद्धौ' ॥ ३९ ॥ वा० भा० - ग्रहस्य ये शीघ्रफलांशा आगच्छन्ति ते नवतेः ९० शोध्याः । शेषांशानां या ज्या तया शोधकेन्द्रगतिर्गुण्या शोधूकर्णेन भाज्या | लब्धं शीघ्रोच्चगते: शोध्यम् । शेषं स्फुटा गतिर्भवति । यदि न शुध्यति तदा विपरीतशोधने कृते वक्रा गतिर्भवति । अत्रोपपत्तिः । अद्यतनश्वस्तनशीघ्र फलयोरन्तरं गतेः शीघ्रफलं स्यात् । तच्च यथा मान्दं गतिफलं ग्रहफलवदानीतं तथा यद्यानीयते कृतेऽपि कर्णानुपाते सान्तरमेव स्यात् । यथा धीवृद्धिदे । नहि केन्द्रगतिजमेव फलयोरन्तरं स्यात् किन्त्वन्यदपि अद्यतनभुजफलश्व स्तनभुज फला- न्तरे त्रिज्यागुणेऽद्यतन कर्णंहृते यादृशं फलं न तादृशं श्वस्तनकणंहृते । स्वल्पान्तरेऽपि कर्णे भाज्य- स्य बहुत्वाद्द्बह्वन्तरं स्यावित्येतदानयनं हित्वान्यन्महामतिमद्भिः कल्पितम् । तद्यथा । केन्द्रगतिरेव स्पष्टीकृता । तस्यां हि शोघ्रोच्चगतेः शोधितायां ग्रहस्य गतिः स्फुटेवावशिष्यत इति । तत्र स्फुट- १. अत्र श्रीपतिः - १२३ द्राक्केन्द्रभुक्तिरथवा गुणिता स्वभोग्यमौर्व्या शराकृतिहृता परिणाहुनिघ्नी । चक्रांशकैरपि हृता गुणिता त्रिमौर्व्या कर्णोद्धृता भवति शीघ्रफलं हि भुक्तेः ॥ लल्लोऽपि - सि० शे० स्प० ४४ श्लो० । तद्वर्जिता स्वचलतुङ्गगतिः स्वभोग्यखण्डाहता शरयमाक्षिहृता हता च । स्वेन स्फुटेन गुणकेन खनागभक्ता त्रिज्याहता श्रुति हुताशुफलं गते: स्यात् ॥ मन्दस्फुटा ग्रहगतिः स्फुटतामुपैति युक्तोनिता विरहिता सहितामुना च शीघ्राभिधाननिजकेन्द्रपदक्रमेण बाणाब्धिभिः शशिगुणैः खयमै : ऊनं तृतीयमिति केन्द्रपदोक्त लक्ष्म वक्रा गतिर्भवति चेहणतो विशुद्धा ॥ खबाणैरङ्गलंवेस्त्रिगृहमाद्यपदं तं स्यात् । बुद्ध्वा गतौ चलफलं स्वमृणं विधेयम् ।। शि० धी० ग्र० ग० स्प० ३९ ४१ । तद्रहिताशुभुक्तिः । विहृताद्यौर्व्या || च ग्रहमुक्तिरेवम् । प्रतिवासरं तत् ॥ त्रिज्याहता ग्रहगतिमृदुकणंहुद्वा मन्दस्फुटा त्रिज्याहता स्वचलकर्णहृताशुचापभोग्यज्यया विगुणिता लब्धं त्यजेत् स्वचलतुङ्गगते: सदैव शेषं स्फुटा भवति लब्धं भवेद्यदधिकं चलतुङ्गभुक्तेर्व्यस्तं मुनक्ति खचरः अत्र बापूदेवोक्तं कर्णनिरपेक्षं स्फुटगतिसाधनम् - ( शि० धी० ग्र० ग स्प० ४५-४६ श्लो०) भवति त्रिज्या द्राक्केन्द्रभुक्तिघ्नी द्विघ्नद्राकूफलदोज्यं॑या । क्षुण्णान्त्यफलजीवाघ्न्या द्विघ्न्या द्राक्केन्द्रदोज्यंया ॥ भक्ता लब्धे स्वशीघ्रोच्चगतेः खेटगतिव्र्व्यस्तशुद्धी स्पष्टा सि० - १६ शुद्धेऽवशेषकम् । वक्रगतिर्भवेत् ||