पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० सिद्धान्तंशिरोमणि ग्रहगणिते स्फुटा स्यात् । तात्कालिक्या भुक्त्या चन्द्रस्य विशिष्टं प्रयोजनम् । तदाह – 'समीपतिथ्य न्तसमीपचालनमिति' । यत्कालिकञ्चन्द्रस्तस्मात् कालाद्गतो वा गम्यो वा यदासन्नस्तिथ्य. न्तस्तदा तात्कालिक्या गत्या तिथिसाधनं कर्तुं युज्यते । तथा समीपचालनं च | यदा तु दूरतर. स्तिथ्यन्तो दूरचालनं वा चन्द्रस्य तदाद्यया स्थूलया कर्तुं युज्यते । स्थूलकालत्वात् । यतश्चन्द्र- गतिमहत्वात् प्रतिक्षणं समा न भवति । अतस्तदर्थंमयं विशेषोऽभिहितः । अथ गतिफलवासना । अद्यतश्वस्तन ग्रहयोरन्तरं गतिः । अत एव ग्रहफलयोरन्तरं गतिफलं भवितुमर्हति । अथ तत्साधनम् । अद्यतनश्वस्तन केन्द्रयोरन्तरं केन्द्रगतिः । भुजज्या- करणे यद्भोग्यखण्डं तेन सा गुण्या शरद्विदस्त्रैर्भाज्या । तत्र तावत् तात्कालिकभोग्यखण्डकरणा- यानुपात: । यदि त्रिज्यानुल्यया कोटिज्ययाद्यं भोग्यखण्डं शरद्विदत्रतुल्यं लभ्यते तदेष्टया किमित्यत्र कोटिज्यायाः शरद्विदत्रा २५ गुणस्त्रिज्या हरः । फलं तात्कालिकं स्फुटभोग्यखण्डं तेन केन्द्रगतिर्गुणनीया शरद्विदत्रैर्भाज्या । अत्र शरद्विदत्रमितयोर्गुणकभाज कयोस्तुल्यत्वान्नाशे कृते केन्द्रगतेः कोटिज्या गुणस्त्रिज्या हरः स्यात् । फलमद्यतनश्वस्तनकेन्द्रदोर्ज्ययोरन्तरं भवति । तत्फल करणार्थं स्वपरिधिना गुण्यं भांशै: ३६० र्भाज्यम् । पूर्व किल गुणक: कोटिज्या सा यावत् परिधिना गुप्यते भांश: ३६० ते तावत्कोटिफलं जायत इत्युपपन्नं 'कोटोफलघ्नी मृदुकेन्द्र- भक्तिरित्यादि । एवमद्यतनश्वस्तन ग्रह फलयोरन्तरं तद्गते: फलं कर्यादिकेन्द्र ग्रहणफलस्या पचो- यमानत्वात् तुलादौ धनफलस्योपचीयमानत्वाद्धनम् । मकरादौ तु धनफलस्यापचीयमानत्वान्मेषा- दावणफलस्योपचीयमानत्वाणमित्युपपन्नम् ॥ ३५३ - ३८ ॥ वा० वा० -- इदानीं गतिस्पष्टीकरणमाह – 'दिनान्तरस्पष्टखगान्तरमिति' । इयं स्थूला गतिः । प्रतिक्षणं चन्द्रकोटिफलस्यान्यथात्वेन गतेरप्यन्यादृशत्वमुचितमिति सूक्ष्मां गतिमाह - 'कोटीफलघ्नी मृदुकेन्द्रभुक्तिरिति ।' अद्यतनश्वस्तनग्रहयोरन्तरं गतिः तत्र मध्यमयोरन्तरं मध्यमा सा तु ज्ञातैव । मन्दस्पष्टयोरन्तरं मन्दस्पष्टा साध्यते तत्र मन्दफलयोरेवान्तरं लाघवा दुगतेन्दफलं साध्यते । अद्यतनश्वस्तनकेन्द्रभुजयोर- न्तरं केन्द्रगतिरेव | अथ भुजज्यान्तरं साध्यते । यदि त्रिज्या तुल्यया कोटिज्यया तत्त्वाश्वितुल्य- केन्द्रगतेस्तत्त्वाश्वितुल्यं ज्यान्तरं भवति तदाभिमतकोटिज्ययेष्टकेन्द्रगतेः किमित्यन्योन्- यपक्षानयने फलयोः पञ्चराशिकेन कृते केन्द्रगतिरिष्टकोटिज्या गुण्या त्रिज्यया भाज्या जातमद्यतनश्वस्तनकेन्द्रभुजजीवयोरन्तरम् । इदं फलसाधनायान्त्यफलज्यागुणं त्रिज्यया भाज्यम् । तत्र तावदिष्ट कोटिफलमेव भवतीति 'कोटीफलघ्नीम- केन्द्रभुक्तिस्त्रिज्योद्धृतेति' शोभनमुक्तम् । यथा च सूर्योदये सूर्यस्य कियद्दिनमानमिति पृष्ठे सायनार्कस्य यावान् भोग्यकालः स च सषड्भसायनौदयिकाकभुक्तकालयुक्तो [मध्योदयैर्युक्तो]दिनप्रमाणं भवतीत्युच्यते । इदं किल स्थूलम् । प्रतिक्षणं चरस्यान्यादृश- त्त्वात्तात्कालिकं चरं दिनमानञ्च साध्यते तत्सूक्ष्ममुच्यते । यथा च ग्रहोदयलग्नादि- तात्कालिकं साध्यते तद्वत्तात्कालिकी गतिरिति न किंचिद्बाधकम् । १. वाहते.... इति क ख ग पु० । .२. अयमंशो ग पु० नास्ति ।