( ९ )
सिद्धान्तशेखरग्रन्थस्य ग्रहयुद्धारम्भे प्रविलोक्यते । तथापि बहवो विशेषा उदयान्तरकर्म
सम्बन्धिनो भास्कराचार्येण सनुदिता इति सर्वे विद्वांसः स्वीकुर्वन्ति ।
तथान्ये विशेषा: सिद्धान्तग्रन्थेभ्यः-
१. ज्याचापाथं भोग्यखण्डस्फुटीकरणम्, २. ग्रहगतिः, ३. इच्छादिच्छाया,
४. रवीन्द्वोः कलाकर्णः, ५. योजनात्मककर्णस्य स्फुटत्वम्, ६. रविचन्द्रयोर्योजनबिम्बम्
७. रवीन्द्वोः कलात्मकबिम्बसाधनम्, ८ स्थित्यर्द्धविमर्दार्द्धसाधनम्, ९. सकृविधिना-
लम्बनानयनम्, १०. चन्द्रगोलसन्धिवर्णनम्, ११. लग्नार्थमर्कस्य तात्कालिकीकरणम्
१२. सदोदितभानां विवेचनम्, १३. भूपृष्ठफलानधनम्, १४. लल्लोक्तराशिदृश्यादृश्यत्व
खण्डनम्, १५ भूपृष्ठीयच्छायानयनम् १६. फलकयन्त्रवर्णनम्, १७. शङ्कुत्रितयवशा
दिग्देशादिज्ञानम्, १८. छायोगान्तरज्याज्ञानमित्यादयः सन्ति ।
नृसिंह
ज्योतिषेतिवृत्ते नृसिंहृद्व्यस्यापि प्रसिद्धिरस्ति । प्रथमस्तु तावद् गणेशदैवज्ञस्य
भ्राता रामस्य पुत्रो बभूव । अनेन नन्दिपुरस्थितेन रामसुतनृसिंहेन १४८० शके 'मध्य-
ग्रहसिद्धिः' उक्तेति म० म० सुधाकर द्विवेदिमहाभागानां कथनं गणकतरङ्गिण्याम् । १
द्वितीय वासनांवार्त्तिककारो नृसिंहः
अस्य महाप्राज्ञस्य जन्मशकस्तत्कथनेनैव ज्ञायते । यथोक्तं वासनावात्तिकान्ते--
गुणवेदशरेन्दुसम्मिते शककाले नगरे
वसता वरुणासिमध्यगे नरसिंहेन विनिर्मितं
निजे तत्वमिते
C
पुरेशितुः ।
त्विदम् ॥
वर्षे सौरभाष्यं मया कृतम् ।
पञ्चत्रंशन्मिते वर्षे वासनावात्तिकं कृतम् ॥
एतेनेदमपि विज्ञायते यदनेन पञ्चविंशतिवर्षे वयांसि पूर्वं सूर्यसिद्धान्तस्य टीकां
सौरभाष्याख्यां विधाय पञ्चत्रिंशन्मितवयःकाले सिद्धान्तशिरोमणेष्टीका कृता
वाराणस्याम् ।
अयं हि महाराष्ट्रीयो विप्रः कृष्णदैवज्ञपुत्रो दिवाकरदैवज्ञजनकः शिवाग्रजः
स्वकीयतात ( कृष्ण ) पितृभ्यां बिष्णुमल्लारिभ्यामवीतविद्यो गोदावर्याः सौम्यतटे
गोलग्रामे वसति चकारेति वासनावातिकान्ते तवाक्येनैव परिचीयते । यथा---
'गोदावरी सौम्यतटोपकण्ठग्रामे च गोलेऽभिधया प्रसिद्धे । ”
१. भा० ज्यो० ३७७ पृ० ।
२. सि० शि० ५३६ पृ० ।
३. सि०शि० ५३६ पृ० !
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१७
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति