पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः ११५ १ अयं योगस्य । अन्तरस्यायम् | त्रिकोफ रं त्रिव १ कोफव १ । कोटिफलवर्गोनोऽन्त्य फलज्यावर्गो भुजफलवर्गो जातः । कोफव १ अंव १ अनयोर्योगे कोटिफलवर्गनाशे त्रिज्यान्त्य कलज्यावर्गैक्यं त्रिज्याकोटिफलघातेन द्विगुणेन मृगादि केन्द्र युतं कर्क्यादौ तु रहितं तस्य पदं कर्णं इत्युपपन्नम् ॥ २७-२९ ।। वा० वा० –स्वकोटिजीवान्त्यफलज्ययोरिति । त्रिज्या तथेति । त्रिभज्ययेति । प्रथमप्रकारद्वयं छेद्यकर्शनमात्रावगतोपपत्तिकम् । भुजकोटयोर्वंर्गंयोगपदं कर्णंः । तत्र कोटे: खण्डद्वयमिति प्रथमप्रकाराभ्यां ज्ञातम् । ततः - 169 खण्डद्वयस्याभिहतिद्विनिघ्नी तत्खण्डवर्गे क्ययुता कृतिर्वा” इति कोटेर्वर्गः कार्यः । तत्र [भुजवर्गो योज्यः । तत्र यावद् भुजज्यावर्गे कोटिज्यावर्गो योज्यते तावत् त्रिज्या वर्ग एव भवति । यतो] भुजज्या भुजः, कोटिज्या कोटिस्त्रिज्या कर्णं इति । एवं दो: फलं भुजः कोटिफलं कोटि : अन्त्यफलज्या कर्ण इति दोः फलकोटिफलवर्गयोगो- ऽन्त्यफलज्या वर्गः । तस्मादनवद्यम् ॥ २७-२९ ॥ इदानींमर्केन्द्रोः फलानयनं लघुज्यया लघुप्रकारेणाह- ये केन्द्रदोज्ये लघुखण्डकोत्थे क्रमाद्रवीन्द्वोर्नखसंगुणे ते । भक्ते त्रिखेशैः ११०३ मुनिसप्तवे : ४७७ यद्वा तयोर्मन्दफले लवाद्ये ||३०|| वा० भा० - स्पष्टम् । अत्रोपपत्तिः । अर्कस्य बृहज्ज्याभिः परमं फलमानीतं भागद्वयं साधंदशकलाधिकं किल भवति । २ । १० । ३१ । यदि लध्व्या त्रिज्यातुल्यया दोज्यंयेदं फलं तदाभोष्टया किमिति । एवमनुपातेन दोर्ज्यायाः फलं गुणस्त्रिज्या १२० हरः । अथ संचारः | यदि फल मिते गुणे त्रिज्याहरस्तदा विंशतिमिते किमित्युत्पद्यन्ते त्रिखेशाः ११०३ | अथ चन्द्रस्य परमं फलमष्टविकलाधिककलाद्वयाधिकाः पञ्च भागा: ५।२।८। इहापि नखगुणत्रिज्याया: २४०० फलेन भागे हृते लभ्यन्ते मुनिसप्तवेदाः ४७७ ॥ ३० ॥ इदानीमकॅन्द्वोर्गति स्पष्टीकरणम् - तत्कोटिजीवा कृतबाणभक्ता रवेविंधोवेंदहताद्रिभक्ता । लब्धाः कलाः कर्किमृगादिकेन्द्र गतेः फलं तत् क्रमशो धनर्णम् ॥ ३१॥ - वा० भा० - तत्कोटिजीवेति । लध्वी कोटिज्या कृतबाणभक्ता रवेर्गतिफलं स्यात् । विधोस्तु केन्द्रकोटिज्या लघ्वी वेदगुणा सप्तभक्ता गतिफलं स्यात् । तत् फलं कर्यादिकेन्द्र धनं मकरादावृणं गतेः कार्यम् । एवं तात्कालिकी स्फुटा गतिर्भवति । १. द्वयस्वहति इति क० ख० पु० | लीला० वर्गकरणे सूत्रम् । २. कोष्ठान्तर्गतोंऽशो ग० पु० नास्ति ।