पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते अत्रोपपत्तिः । तत्र वक्ष्यमाणप्रकारेण कोटीफलघ्नी मृदुकेन्द्र भुक्तिरित्यादिनानीते रविचन्द्रयोः परमे गतिफले कलाद्ये २४ ।६८ | आभ्यां गतिफल ज्ञानार्थमनुपात: । यदि लध्व्या त्रिज्यातुल्यथा कोटिज्यया एते रविचन्द्रयोर्गतिफले तदेष्टया किमिति । अत्र गुणकेन गुणकभाजकावपवयं ज्ञाता भाजके युगशराः ५४ | चन्द्रस्य गतिफलचतुर्थांशेन गतिफलं त्रिज्यां चापवर्त्यं ज्ञातो गुणक: ४ | भाजकश्च ७ । इत्युपपन्नम् । धनर्णतोपपत्तिरने वक्ष्ये ॥ ३१ ॥ वा० वा०—ये केन्द्रदोर्ज्ये, इति । तत्कोटिजीवेति । स्पष्टं भाष्ये । क्षयफलहासे धनफलवृद्धौ गतेः फलं धनमिति कर्कादौ धनम् । धनफलहासे क्षयफलवृद्धौ गतेः फलमृणमिति मकरादिकेन्द्र क्षय इति । १ तथाहुः केशवसाम्वत्सराः - स्वर्धो स्वं स्वमृणक्षय इति । यत्तु केनचित्प्रलप्यते कर्णस्य ह्रासात् कर्कादावृणमिति तदयुक्तम् ॥ ३०-३१ ॥ इदानीं भौमादीनां शीघ्र फलानयनम् - १९६ द्राग्दोः फलात् संगुणितात् त्रिमौर्व्या घाताजज्यान्त्यफलज्ययोर्वा । कर्णोद्धृताद्यत् सममेव लब्धं तत् कामु कं शीघ्रफलं ग्रहाणाम् ||३२|| वा० भा० - स्पष्टम् । अत्र वासना त्रैराशिकेन । कर्णकोटिसूत्रयोर्यंदि कर्णाग्रे भुजफल तुल्यमन्तरं तदा त्रिज्याग्रे किमिति । अतस्त्रिज्याघ्नं भुजफलं कर्णेन हृतम् । तच्चापकरणेन वृत्तगतत्वं फलस्योपपन्नम् । अथान्यप्रकारेण | दोर्ज्यान्त्यफलज्याघ्नी त्रिज्यया भक्ता भुजफलं भवति । यदि कर्णाग्र एतावदन्तरं तदा त्रिज्याने किमिति । पूर्वं त्रिज्या हरः । इदानीं स गुणस्तुल्य- त्वान्नाशे कृते सति घातात् भुजज्यान्त्य फलज्ययोर्वेत्युपपन्नम् ॥ ३२ ॥ वा० वा० – शीघ्रफलानयनमाह- द्राग्दोः फलादिति । प्रतिमण्डलस्था दोर्ज्या नीचोच्चवृत्ते परिणामिता दोः फलसंज्ञां गता । यदि त्रिज्या व्यासार्धे दोर्ज्यातुल्यो भुजस्तदान्त्यफलज्याव्यासार्द्धे क इति जातं दोः फलं नीच्चोच्चवृत्ते । ततः कक्षामण्ड- लपरिधिस्थकरणायानुपातः । यदीदं कर्णाऽग्रे दोः फलं तदा त्रिज्याग्रे किमिति त्रैराशिक- द्वयेन शीघ्रफलं साध्यते तदा त्रिज्ययोर्नाशे कृते द्वित्तीयप्रकार उत्पद्यते । प्रथमत्रैराशि- कसिद्धमेव द्राग्दोः फलं गृह्यते । ततः कर्णानुपाते कृते प्रथमप्रकार उत्पद्यते ॥ ३२ ॥ इदानीं प्रकारान्तरेण फलमाह - त्रिज्याहता कर्णहता भुजज्या तच्चापबाह्वोर्विवरं फलं वा । ज्ञेयोऽत्र बाहुः प्रतिमण्डलस्य चापेन शीघ्रान्त्यफलज्यकायाः ।। ३३ ।। त्रिभं युतोनोनयुतं पदानि दोस्तेषु यातैष्यमयुग्मयुग्मे । १. केन्द्रक्षय इति क ख पु० । २. अत्र बापूदेवोक्तं प्रकारान्तरेण शीघ्रफलानयनम् । द्राक्केन्द्र कोटिमौर्व्यान्त्यफलज्यागुणया नात् । मृगकर्यादिके केन्द्र युतोना त्रिज्यकाकृतिः ॥ ३. परिमाणमिता इति गपु० ।