पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ सिद्धान्तशिरोमणी ग्रहगणिते स्यादिति जातो दोर्ज्यावर्ग: कोव त्रिव १ | अनयोर्यावद्योगः क्रियते तावद्धनणंयो: कोटिज्या- वर्गयोस्तुल्यत्वान्नाशे कृते त्रिज्यान्त्यफलज्ययोर्वर्गैक्यं कोटिज्ययान्त्यफलज्यागुणया द्विनिघ्न्या च युतं जातम् । एवं मृगादिकेन्द्र कर्यादितु तया हीनं भवति । एवं तन्मूलं कर्ण इत्युपपन्नम् । इदं कर्णानयनद्वयं प्रतिमण्डलभङ्गया । अथ नीचोच्चवृत्तभङ्गया चोच्यते । कक्षामण्डले मध्यग्रहस्थानेऽन्त्यफलज्यामित- ककंटेन वृत्तं विलिख्य भूबिन्दोमंध्यग्रहोपरिगामिनी रेखा कार्या सा तत्रोच्चरेखा | तस्य वृत्तस्य रेखया सह यौ योगौ तयोरुपरितन उच्चसंज्ञः । अधस्तनो नीचसंज्ञः । तद्र खातोऽन्या तियँग् वृत्तमध्ये मत्स्येन रेखा कार्या | तदपि वृत्तमुच्चप्रदेशाद्भांशैरङ्कयम् । तत्रोच्चाच्छ्रीघ्र केन्द्रमनुलोमं देयम् । मन्दकेन्द्रन्तु विलोमं देयम् । तत्र शीघ्र केन्द्राग्रे पारमार्थिको ग्रहः । मन्दाग्रे मन्दस्फुटः । अत्रापि ग्रहोच्चरेखयोरन्तरं भुजफलं ग्रहतिर्यग्रेखयोरन्तरं कोटिफलं ग्रहभूम्योरन्तरं प्राग्वत् कर्णः । अथ तदानयनम् । मकरादिकेन्द्रे त्रिज्योवंत: कोटिफलं दृश्यते । कर्यादौ तु तदधः | अतस्तदेवयान्तरं स्फुटा कोटि: । भुजफलन्तु तत्र भुजः तयोर्वगंयोगपदं कर्णं इत्युपपन्नम् । अत्रापि क्रियोपसंहारः । अत्र स्फुटकोटिवर्ग: खण्डद्वयेन प्राग्वत् । तत्रैकं खण्डं त्रिज्या | द्वितीयं कोटिफलम् । अतः खण्डद्वयस्याभिहतिद्वनिघ्नीत्यादिना जातो वर्गः | त्रिकोफ २ त्रिव १ कोफव १. नीचोच्चवृत्तभङ्गिः । उ. म.म.स.ग्र. नी. 24 प्रवि + Satur: burk by't