पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः ११३ अनोपपत्तिः । समायां भूमौ बिन्दुं कृत्वा तां भूमि प्रकल्प्य ततस्त्रिज्यामितेन ककंटकेन कक्षास्यमण्डलं लिखेत्' । तद्भगणाङ्कितं कृत्वा मेषावेरारभ्य ग्रहमुच्चं च दत्त्वा तत्र चिह्न कार्ये । ततो भूबिन्दूच्चचिह्नयोरुपरि रेखा दीर्घा कार्या । सोच्चरेखोच्यते । अथ तदुत्थमत्स्येन कक्षामण्डलेऽन्या तिथंग्रेखा च कार्या | भूबिन्दोरुपयंन्त्यफलज्यामुच्चोन्मुखीं दत्त्वा तदने त्रिज्या- मितकर्कटेन प्रतिमण्डलं च कार्यम् | उच्चरेखया सह यत्र सम्पातस्तत्र प्रतिमण्डलेऽप्युच्चं ज्ञेयम् | तस्मादुच्चभोगं विलोमं दत्त्वा तत्र प्रतिमण्डले मेषादिर्ज्ञेयः । ततो ग्रहमनुलोमं दत्वा तत्र चिह्नं कार्यम् । अथ प्रतिमण्डलमध्येऽप्यन्या तिर्यग्रेखा कार्या | तियंग्ने खयो रन्तर मन्त्यफलज्यातुल्यमेव सर्वत्र भवति । ग्रहोच्चरेखयोरन्तरं दोर्ज्या | ग्रहतिर्यग्रेखयोरन्तरं कोटिज्या प्रतिमण्डलस्थ ग्रहाद्भू बिन्दुग' मि सूत्रं कर्णः | कर्णसूत्रस्य कक्षावृत्तस्य च यत्र सम्पातस्तत्र स्फुटो ग्रहः । कक्षामण्डले स्फुटमध्ययोरन्तरं फलम् । तच्च मध्यग्रहात् स्फुटेऽग्ग्रस्थे धनं पृष्ठस्थे त्वृणमिति किन ग्रहसंस्थानम् | अथात्र कर्णस्योपपत्तिः । कक्षावृत्तप्रतिवृत्ततिर्यक स्थरेखयोरन्तरं किलान्त्यफलज्या | प्रतिमण्डले कोटिज्यान्त्षफलज्याग्रादुपरि भवति मृगादिकेन्द्रेऽतस्तत्र तदैक्यं स्फुटा कोटि । कर्यादौ तु तदवोऽतस्तत्र तदन्तरं स्फुट कोटि । स्फुटकोटिमूलस्य भूबिन्दोश्च यदन्तरं तद्भुजज्यातुल्यमेव स्यात् । अतस्तयोर्भुजकोटघोर्गयोगात् पदं कर्ण इत्युपपन्नम् । अथ क्रियोपसंहारः । कोटिज्यान्त्यफलज्ययोर्योग स्यान्तरस्य च वर्ग: कार्यः स चैवम् । 'खण्डद्वयस्याभिहतिद्वनिघ्नी तत्खण्डवगैक्ययुता कृतिः स्यादिति' । तत्र कोटिज्यैकं खण्डम् । अन्त्य फलज्याद्वितीयं खण्डम् | आभ्यां कृता कृतिः । कोअं २ कोव १ अंव १ | इयं योगस्य | अन्तरस्येयं कोअं २ कोव १ अंव १ । इदानीं दोर्ज्यावर्ग: साध्यते । कोटिज्यावर्गोन स्त्रिज्यावर्गो दोज्यावर्ग: १. अत्र प्रतिवृत्तमङ्गिः । सि० - १५ म.ग्र. the ve चलम केन्द्र दो ज्य रूप. ग्र. उच्चम् कर्ण: भः नीचम् फ. ज्या दो प्रतिहजम् कक्षादनम् कर्ण: म.ग्र. the 2014 ·3.Kr laz फलम्