सिद्धान्तशिरोमणौ ग्रहगणिते खारवा ७० भुजङ्गदहना ३८ अमरा ३३ भवाश्च १९ पूर्णेषवो ५० निगदिताः क्षितिजादिकानाम् ।। २२ ।। वा० भा० – इह ग्रहफलोपपत्यर्थं मन्दोच्चनीचवृत्तानि पूर्वैः कल्पितानि । तेषां प्रमाणा- न्येतावन्तो भागाः । अत्रोपपत्तिः । ग्रहस्य यन्त्रवेधविधिना यत् परमं फलमुत्पद्यते तस्य ज्या परमफलज्या- न्त्यफलज्या चोच्यते । अन्त्यफल यातुल्यव्यासार्धे यद्वृत्तमुत्पद्यते तन्नोचोच्चवृत्तम् । तत्परिधि- स्त्रैराशिकेन । यदि त्रिज्याव्यासार्धं भांशाः ३६० परिधिस्तदान्त्यफलज्याव्यासार्धे किमिति लब्धं परिधिभागाः । एवमर्कादीनां त्रिलवोनशक्रा इत्यादय उत्पद्यन्ते ॥ २२ ॥ अथ भौमादीनां चलपरिधोनाह- एषां चलाः कृतजिनास्त्रिलवेन हीना २४३ | ४० दन्तेन्दवो १३२ वसुरसा ६८ वसुबाणदस्रा: २५८ । पूर्णाब्धयो ४० ऽथ भृगुजस्य तु मन्दकेन्द्र - दोः शिञ्जिनी द्विगुणिता त्रिगुणेन ३४३८ भक्ता ॥ २३ ॥ लब्धेन मन्दपरिधी रहितः स्फुट: स्यात् तच्छीघ्र केन्द्र भुजमौर्व्यथ वाणनिघ्नी । त्रिज्योद्घृताशुपरिधिः फलयुक् स्फुटः स्या- द्भौमाशुकेन्द्रपदगम्यगताल्पजीवा ॥ २४ ॥ त्र्यंशोनशैल ६ । ४० गुणितार्धयुतस्य राशे- मौव्योद्घृताप्तलवहीनयुतं मृदूच्चम् । भौमस्य कर्किमकरादिगते स्वकेन्द्रे लब्धांशकैर्विरहितः परिधिस्तु शैयः ॥ २५ ॥ 9 १. अत्र लल्ल: । वस्वीशा दशबाहवोऽम्बरधृती खाङ्का रसत्र्यश्विनो मन्दांशा मनुशैलशैलयुगगोसंख्या: स्वमन्दा गुणाः । शैघ्न्या रामशराः शशाङ्कदहना भूपास्त्रिवर्गेषवो नन्दारच क्षितिजज्ञजीवभृगुजच्छायासुतानां क्रमात् ॥ वेदाक्षीन्दुयमाब्धिभिर्मृदुभवां दोर्ज्या क्रमेणाहतां व्यासार्धेन भजेद्गुणाः फलयुता होनौ ज्ञभृग्वोः स्फुटाः । द्विद्वीन्दुद्धिकुभिर्हतां चलभवां दोर्ज्या मजेत् त्रिज्यया सर्वे शीघ्रभवाः फलेन रहिताः स्पष्टाः स्युरेवं गुणाः ॥ ( शिष्यधीवृ० ग्र० ग० स्प० २८-२९ श्लो० )
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१५५
दिखावट