पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १०९ त्रिज्यातुल्येन कर्कटकेन वृत्तं कृत्वा भांश ३६० रयम् । तन्मध्ये पूर्वापरां याम्घोत्तरां च रेखां कृत्वा प्राच्याः सकाशात् सव्यक्रमेण किठ पदानि कल्प्यानि वृत्ते रेखावच्छिन्नानि । तेषां क्रमेणा- युग्मयुग्मसंज्ञा च । अत्र प्रथमपदे प्राच्याः सकाशाद्वृत्तेऽभीष्टस्थाने बिन्दुः कार्य: । तस्य बिन्दो प्राध्यपरायाश्च यदन्तरं सा दोर्ज्या | बिन्दोर्याम्योत्तरायाश्च यदन्तरं सा कोटिज्या । तद्धनुषो भुजकोटिसंज्ञे । यथा यथा स बिन्दुरग्रतश्चात्यते तथा तथा दोर्ज्योपचीयते कोटिज्या चापचीयते । पदान्तं प्राप्ते बिन्दौ कोटेरभावः । दोर्ज्या च व्यासार्धेल्या स्यात् । ततो द्वितीयपदे कोटेरु- पचयः । तत्पदान्ते कोटि: परमा | भुजस्थाभाव: । 'अत एवोक्तम् । अयुग्मे पदे यातमेष्यन्तु युग्म ' इति । तथात्र धनुषि ज्यारूपा या सा क्रमज्या शररूपं यदन्तरं सोत्क्रमज्या | बाणोनं व्यासाधं चैतदितरज्यातुल्यं स्याज्जीवोनं व्यासाधं तदितरबाणतुल्यं स्याविति वृत्तोपरि सर्व दर्शनीयम्' ।। १८-२१ ॥ अथ मन्दपरिधोनाह - मन्दोच्चनीचपरिधिस्त्रिलवोनशक्र १३ । ४० भागा रवेर्जिनकलोनरदा ३१ । ३६ हिमांशोः । मूलेन तदैक्याधं युक्तं दलितं भवेत् स्पष्टम् । भोग्यं क्रमोत्क्रमधनुः करणायैवं गुरुत्वतो न कृतम् || एवमसकृत्कर्मणापि भोग्यखण्डं स्फुटं भवति । तदित्यम् । पूर्वं विशोध्य खण्डानि दश- घ्नशेषादित्यादिनोद्दिष्टजीवातः साधिताद्धनुष: क्रमज्यार्थं यातैष्ययोः खण्डकयो विशेष इत्यादि प्रकारेण भोग्यखण्डं साध्यम् । इदमेव भोग्यं गृहीत्वा विशोध्य खण्डानि दशघ्नशेषादित्यादिना पुनरुद्दिष्टजीवातो धनुः साध्यम् । तस्मात् पुनः क्रमज्यार्थं भोग्यखण्डम् । एवमसकृत् कृते स्फुटं भवति । १. अत्र क्षेत्रदर्शनम् । भुजः कोटि The 1 को.3. को: ज्या भुजज्या भु. ज्या च. प. तृ. प. भु.ज्या भु प्रथम पदम् द्वि. प. मु The 14 काध्या:

को.