पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १११ वा० भा० – एषां भौमादीनां चलाश्चलनीचोच्चवृत्तपरिधिभागा एते । अथ शुक्रस्य मन्दकेन्द्रे या दोर्ज्या सा द्विगुणिता त्रिगुणेन ३४३८ भाज्या | फलेन मन्वपरिधिस्तस्य रहितः सन् स्फुटो भवति । अथ शुक्रस्य शीघ्रकेन्द्रे या दोर्ज्या सा पञ्चगुणा त्रिज्यया भाज्या | फलेन शीघ्रपरिधियुंतः सन् स्फुटो भवति । अथ भौमस्य प्रथमं शीघ्रकेन्द्रं कृत्वा तद्यस्मिन् पदे वर्तते तस्य यद्गतं यच्च गम्यं तयोरल्पस्य या ज्या सा त्रिभागोनं : सप्तभिरंशः ६।४० गुणनोया | ततः पञ्चचत्वारिंशद्भागानां ज्ययानया २४३१ भाज्या । यल्लब्धं भागादिफलं तदनष्टं स्थाप्यम् । तेन फुजस्य मन्दोच्चं सहितं कार्यम् । यदि शीघ्रकेन्द्रं मकारादिषट्के । कर्यादिषट् के तु होनं कार्यम् । एवं मन्दोच्चं स्फुटं भवति । अथ कुजस्य यः पठितः शीघ्रपरिधिः स तेनानष्टस्या पितेन फलेन सदैव वर्जितः सन् स्फुटो भवति । अत्रोपपत्तिः । एषां भौमादीनां यानि परमाणि शीघ्रफलान्युपलभ्यन्ते तेषां ज्या-त्य- फलज्या | ततः प्राग्वत् परिधिभागाः । अथ शुक्रस्य ये मन्दपरिधिभागा रुद्रतुल्याः पठितास्ते युग्मपदान्ते ओजपदान्ते तु नव ९ । अवान्तरेऽनुपात: । यदि त्रिज्या परिध्यन्तर द्वयं २ लभ्यते तदेष्टदोज्यंया कि मिति । फलेन परिधिरपचीयमानत्वाद्वजितः कृतः । तथा तस्य यः शीघ्रपरिधि : पठितो वसुबाणदत्रा इति २५८ एष युग्मपदान्ते । ओजपदान्ते तु पञ्चाधिक: २६३ । अवान्तरेऽनुपातेन यत् फलं तदुपचीयमानत्वाद्धनं कृतम् । अथ भौमस्य यन्मन्दोच्चं गणितागतं तच्छीघ्र केन्द्रपदसन्धिषु सर्वेषु तथाविधमेव । पदमध्ये पुनस्त्रिभागोनं: सप्तभिरं- शैरधिकमेव भवति मृगादिकेन्द्रे | कर्क्यादौ तु होनम् । तथा तस्य यः शीघ्रपरिधिः पठितः । असौ पदसन्धिषु । पदमध्ये तु तैर्भागैरून एव । तदन्तरेऽनुपातः । यद्यधंयुत राशिज्यया २४३१ त्रिभागोनाः सप्त भागा लभ्यन्ते तदा पदगतगम्याल्पज्यया किमिति फलमुपचयापचयव- शाद्धनर्णम् । अत्रागम एव प्रमाणम् ||२३- २५ ॥ वा० वा० – मन्दोच्चनीचपरिधिरिति । एषामिति । लब्धेनेति । भौमस्येति । ग्रहपरमफलज्याव्यासार्द्धेन यत्कृतं वृत्तं तन्नीचोच्चवृत्तम् | यन्त्रवेधात् परमफलज्या- ज्ञानं सुगमम् । त्रिज्यावृत्ते चेदियं दोर्ज्या तदान्त्यफलज्यावृत्ते केति ग्रहस्य दोः फलं वक्ष्यते। यन्त्रवेधेन दोः फलज्ञाने वैपरीत्येन परिधिज्ञानं वा । एवं शुक्रस्येष्टमन्द- फलाद्विलोमेनानीयमानः परिधिर्न सर्वदा रुद्रतुल्यो दृष्टः । अयमर्थः । यदि ग्रहोच्चान्तरदोर्ज्ययानयेदमिष्टदोः फलं तदा त्रिज्यया किमिति परमफलं भवति । ततः परिधेरानयनम् । एवमेकांशमितभु 'जादेकांशादिभुजवृद्धया प्रत्यंशभुजजीवातः साध्यमानाः यन्त्रवेधोपलब्धेष्टफल राशिकेन परिधयोऽपचीयमाना एव दृष्टाः । तत्रौजपदान्ते नवमितो दृष्ट: । युग्मपदान्ते एकादशमितोऽनुमितः । भुजज्यायाः परमऽपचये परिधेः परमोपचयः । भुजज्यायाः परमोपचये परिधे: परमा- पचयः । परिध्यन्त रं च द्विमितमत उक्तं भृगुजस्येति । एवं भौमस्यापि योज्यम् । प्रत्यक्षदृष्टेऽर्थे किमनुपपन्नं नामेति सर्वमवदातम् ।। २२-२५ ।। १. युजादिति क ख पु०