पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १०७ अथ छेद्यकं लिख्यते । तत एवात्र सर्वत्र वासनावगतिः सुगमा । तत्र प्रति- मण्डले ग्रहोच्चरेखयोरन्तरं दोर्ज्या । ग्रहतिर्यग् रेखयोरन्तरं कोटिज्या । ग्रहकक्षातिर्यग्- रेखयोरन्तरं कोटिः । ग्रहाभूबिन्दुगामिसूत्रं कर्ण: । कक्षावृत्तकर्णसूत्रसंपाते स्फुटो ग्रहः । कक्षावृत्ते स्फुटमध्यमयोरन्तरं फलम् | तन्मध्येऽग्रगे स्पष्टखगाहणं पृष्ठस्थिते धनम् । एवं नीचोच्च वृत्तेऽपि दोर्ज्यास्थाने दो: फलं कोटिज्यास्थाने कोटिफलम् । शेषं समानं भङ्गीलिखनप्रकारस्तु भगणोपपत्तावुक्तः । किन्तु प्रतिमण्डले तुङ्गादनुलोमं मन्दकेन्द्रं देयम् । शीघ्रकेन्द्रं विलोमं देयम् । नीचोच्चवृत्ते तु मन्दकेन्द्रं विलोमं शीघ्रकेन्द्र- मनुलीमं देयम् । एवं कृते मिश्रभङ्गयां नीचोच्चवृत्तप्रतिवृत्तयोग एव ग्रहो भवति । तत्र केन्द्र- मे कराशितुल्यं शीघ्रकर्मणि प्रकल्प्य तथा न्यासः । एकादश राशिमितं मान्दं वा प्रकल्प्य न्यासः। तुङ्गदेशाद्राश्यादितुङ्गभोगेन तत्तत्कालिकं विलोमं मेषादिचिह्नम् । मेषादिचिह्लादनुलोमं ग्रहभोगं दत्त्वा ग्रहचिन्हं ज्ञेयम् । एवं कक्षामण्डले तुङ्गदेशाद् विलोमं तुङ्गभोगेन मेषादि ज्ञात्वा तस्य कक्षा- परिधिकर्णसम्पातस्यान्तरे राश्याद्यः स्पष्टो वेद्यः । एवं द्वितीयदिवसेऽपि तदैवसिकं मेषादिचिन्हं कक्षावृत्ते ज्ञात्वा पूर्वदिनज [ स्पष्टग्रहं तन्मेषादे: कक्षावृत्तपरिधौ दद्यात् तत्पूर्वदिनज ] स्पष्ट स्थानमिति कल्पयेत् । ततस्तदैवसिकोऽपि कक्षावृत्तकर्णसम्पाते स्पष्टो ज्ञातव्यः । यद्ययं स्पष्टः पूर्वदिनजस्पष्टचिह्लादग्रे तदा मार्गी ग्रहः । यदा पृष्ठतस्तदा वक्रग इत्युच्यते । अनयोः स्पष्टयोरन्तरं कक्षावृत्तपरिधौ गतदैवसिका गतिः । एव मुदाहरणकल्पनया वक्रादिशिष्यान् प्रदर्शयेत् ॥ १६ ॥ इदानीं भोग्यखण्डस्य धनुःकरणाय स्फुटीकरणमाह - विशोध्य खण्डान्यवशेषकार्धनिघ्नं गतैष्यान्तरमेष्यभक्तम् । फलोनयुगेष्यगत क्यखण्डं चापार्थमेवं स्फुटभोग्यखण्डम् ||१७|| वा० भा० – अत्र धनुःकरणे खण्डेषु विशुद्धेषु यच्छेषं तस्यार्धेन गतंष्यखण्डान्तरं गुणित- मेष्यखण्डेन भजेत् । फलेन गतैष्यखण्डेक्यदलं प्राग्वत् क्रमधनुःकरणाय होनमुत्क्रमधनुःकरणाय योज्यम् । १ कक्षावृत्ते इति ग पु० । ३. एकहशराशि इति गपु० । .... २. मेकरणशतुल्यमिति गपु० । ४. कोष्ठाऽन्तर्गतोंऽशो ग पुस्तके नोपलभ्यते ।