पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते वा० वा० – अथ लघुजीवायां भोग्यखण्डस्फुटीकरणमाह- 'यातैष्ययोः खण्ड- कयोविशेषः' इति । अत्र वासना । १०६ / बृहज्ज्याभिर्दशांशानां जीवा कार्या विचक्षणैः । व्यासार्द्धं त्रिज्ययेयं चेत्तदा खार्के: कियन्मिता ॥ रूपाश्विनोरसांशोनाः ॥ २० ॥ ५० ॥ प्रथमं ज्यार्द्धमुच्यते । त्रिभज्यातुल्यया कोटिजीवया प्रथमं यदि ॥ भोग्यखण्डं ॥ २० ॥ ५० ॥ स्फुटं लभ्यमिष्टकोटिज्यया च किम् । एवं दशदशांशानां भोग्यखडं प्रसाध्यते । यातैष्यखण्डयोगार्द्धतुल्यं भोग्यं प्रजायते ॥ अत उक्तं भाष्यकृता खण्डं भवितुमर्हति । यातैष्यखण्डयोगार्द्धं खण्डसन्धाविति स्फुटम् । शेषं त्र राशिकाद्यन्तु भाष्ये स्पष्टतरं यतः । तन्नोक्तं भाष्यकठिन्यव्याख्यामात्र मयोच्यते । क्रमेण दशदशांशानां कोटिजीवाः ॥ ११८ ॥ ११३ ॥ १०४ ॥ ९२ ॥ ॥ ७७ ॥ ६० ॥ ४१ ॥ २१ ॥ आभ्यः पूर्वोक्त्या सिद्धानि स्पष्टभोग्यखण्डानि आचार्येण स्वल्पान्तरत्वाद्यातैष्यखण्डयोगार्द्धतुल्यान्येव स्वीकृतानि प्रथमखण्डञ्च रूपाश्विमितं स्वीकृतमित्यदोषः । २० १३ १० ७ ३ ३९ ३५ ३ २५ २५ ७ ३१ स्पष्टखण्डस्य प्रयोजनमुक्तं "भोग्यात् स्फुटाज्ज्यात्र परिस्फुटेति” । ब्रह्मतुल्ये स्पष्टगतिसाधने चावश्यकमिदम् । १८ यातैष्ययोः खण्डकयोरित्यादिराचार्योक्तः स्फुटभोग्यखण्डसाधनप्रकार उद्दिष्टांशानां दशभ्योऽनल्पत्वे बोध्य इति निश्चिन्वन्ति । अत्रास्माभिरुच्यते । यातज्यातस्तत्पूर्वज्यायां शोधितायां यच्छिष्यते तदेव यातखण्डं नाम अतो दशभ्योऽल्पानामंशानां ज्यासाधने गतज्या पूर्णम् ० तत्पूर्वज्या च रूपारिव २१ मितैव किन्तु सा चतुर्थपदस्थत्वादृणम् अस्यां २१ गतज्यात: • शोधितायां संशोध्यमानमृणं स्वं स्यादि- त्यनेन जातं शेषमेकविंशतिर्धनम् २१ इदमेवात्र गतखण्डम् । अतः पश्चानामंशानां ज्यासाधने स्पष्टभोग्यार्थं यातैष्ययोः खण्डयो: २१, २१ अनयोविशेष: ० शेषांशनिघ्न: • नखहृत् अनेनोनं यातंष्यखण्डयोर्योगाधं २१, इदमेव स्फुटं भोग्यखण्डम् । अनेन निघ्नाः शेषांशा: १०५ खेन्दुभिर्भक्ता : १०।३० इदमाप्तं यातखण्डैक्येन • युतम् १०३० जाता पश्वानामंशानां लघुज्येति सर्वं निरवद्यम् । १. ३९ इति गपु० ।