पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १०५ वा० भा०- - गतष्ययोः खण्डकयोयंदन्तरं तज्ज्यासाधने दशभक्तभागेभ्यो ये शेषांशास्ते- र्गुणितं नवँभंजेत् । फलेन गतैष्ययोः खण्डयोर्योगाधंमूनीकृतं स्फुटं भोग्यं भवति । उत्क्रभज्या- करणे तु युतम् । अत्रोपपत्तिः । गतैष्ययोः खण्डयोर्योगाधं खण्डसन्धौ खण्डं भवितुमर्हति । भोग्यखण्ड- न्तु भोग्यान्तस्थाने । तदन्तरेऽनुपातः । यदि दशभिर्भागस्तयोरन्तरार्धं लभ्यते तदा शेषांश: किमिति । एवं त्रैराशिकेन गतैष्यखण्डान्तरगुणितानां शेषांशानां विंशतिर्भागहार: स्यात् । फलेन गतैष्ययोर्योगार्धमत ऊनं क्रियते यतः क्रमज्याकरणे खण्डान्यपचयेन वर्तन्ते । उत्क्रमज्याकरणे तूपचयेनातस्तत्र युतमित्युपपन्नम् ॥१६॥ तेषां दशमांशेन समेगच्छे यत् सर्वधनं स्यात् सैव स्फुटा ज्या भवेत् तस्या विलोमेन भोग्य- खण्डावगमः सुगम इति पूर्व सभ्यङ् मनसि विचिन्त्यम् । ततो लाघवार्थं यदि लघुज्याकरणे यद्गतखण्डं तदेव श्रेढ्या आदि: कल्प्येत तहि शेषांशदशांशेन सहितं रूपं गच्छ: स्यात् । तत एकामेव परम्परां गृहीत्वा साधितात् सर्वंधनाच्छ्र ढ्याद्यराशिरूपे गतखण्डे विशोधिते शेषम- भीष्टस्पष्टज्याशेषं स्यात् । ततो विलोमेन भोग्यानयनाय तस्मिन् शेषे दशभिगुणिते शेषांशहृते स्फुटं भोग्यखण्डं लभ्येतेत्यतिरोहितमेव मतिमतामित्येतदेव बीजक्रियया विलिख्य प्रदर्श्यते । तथाहि । यातखण्डम् या १ इदमेव श्रेढ्या आद्यराशिः । एष्यखण्डम् ए १ अत: या १ ए १ अयमाद्यपरम्पराया आदिः । रू १ शे १० अयं गच्छः । अस्माच्छू ढीपदादेकभेदमानम् रू १ शे ६० द्विभेदमानम् शे ५० शेव एते क्रमेण या १, या १ ए १, आभ्यां श्रेढ्याद्यप- रम्परयोराद्याभ्यामाहते जाते । ģ या १ या शेठे । या. ए० शे० ० । या. ३० शेव i या. शेव ३०० ए. शेव į शे २०० ए. शेव २०० अनयोर्योगे जातं सर्वधनम् या १ या. शे शे० ए. शेशे या. शेव २०० ए. शेव २० अस्माद्यातखण्डे विशोधिते जातमिष्टज्याशेषम् । या शेए. शे२ ३०० अस्मिन् दशभिगुणिते शेषांशहृते जातं स्फुटभोग्यखण्डम् या एईया. शे ģ २० ए. शै ३० । यद्वा ( या १ ए १ ) ३ ( या १ ए १ ) २० क्रमज्या करणे खण्डानामु- त्तरोत्तरमपचयात् या १ ए १ अस्य मानमृणं स्यादुत्क्रमज्याकरणे तूपचयात्तन्मानं घनं भवे- दित्युपपन्नं यातैष्ययोरित्यादि । अत्र केचिद्मोग्यखण्डस्फुटीकरणपूर्वंकलघुज्यासाधनार्थमुद्दिष्टांशानां दशभ्योऽल्पत्वे यातखण्डं शून्यं मत्वा भोग्यखण्डमानीय ततः स्पष्टां ज्यां साधयन्ति । तथा यदा किल पञ्चानामंशानां ज्या साध्या तदा यातखण्डम्० एष्यखण्डम् २१ अनयोविशेषः २१ शेषांश- ५ र्गुणितो नखै २० भक्तो जातः ५॥१५ अनेनोनितं यातैष्यखण्डयोर्योगार्धम् १०।३० इदं जातं. स्फुटं भोग्यखण्डम् ५॥१५ ततोऽनेन निघ्नाः शेषांशां २६११५ खेन्दुभि १० भक्ता: २।३७ ३०. आप्तेनानेन युतं यातखण्डैक्यम् जाता लघुज्या २ | ३७ । ३० ॥ यद्वाऽत्र यातखण्डादेष्य- खण्डस्य महत्वाद्यातैष्यखण्डयोर्योगार्थे १० । ३० अस्मिन् ५ । १५ अनेन युक्ते जातं भोग्यखण्डम् १५ । ४५ अतः सिद्धा लघुज्या ७ | ५२ । ३० । एवमुभयथापि सिद्धां जीवामशुद्धां बुद्ध्वा सि० - १४