पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते इदानीं परमक्रान्तिज्यासाह-- अश्वाङ्कविश्वे १३९७ऽत्र जिनांशजीवा यद्वा सुखार्थं लघुखण्डकैर्ज्या ||१२|| रूपाश्विनो विंशतिरङ्कचन्द्रा २१ । २० । १९ अत्यष्टितिथ्यर्कनवेषुदस्राः १७|१५|१२|९|५|२ ज्याखण्डकान्यंशमितेर्दशाप्तं स्युर्यातखण्डान्यथ भोग्यनिघ्नाः ॥१३॥ शेषांशकाः खेन्दुहता यदाप्तं तद्यातखण्डक्ययुतं लघुज्या । जिनांशजीवाङ्ककृता विपादाः ४८।४५ स्यादुत्क्रमज्यात्र विलोमखण्डैः ।।१४।। विशोध्य खण्डानि दशघ्नशेषादशुद्धलब्धं धनुरंशकाद्यम् । विशुद्धसंख्याहतदिग्युतं स्याद् भोग्यात् स्फुटाज्ज्यातिपरिस्फुटात्र ||१५|| वा० भा० – चतुर्विंशतिभागानां जीवाश्वाङ्कविश्व १३९७ तुल्या भवति । इयं परम- क्रान्तिज्या सन्ततोपयोगित्वात् पठिता । अथ लघुखण्डकॅर्ज्या साध्यते सुखार्थम् । कानि तानि खण्डकानि । रूपाश्विन इत्यादीनि नव । अथ ज्यासाधनम् । यस्य ज्या साध्या तस्य भागान् कृत्वा दशभि १० भंजेत् । तत्र यावल्लभ्यते तावन्ति गतखण्डकानि स्युः । अथ शेषांशानु भोग्यखण्डेन संगुण्य दशभिभंजेत् । फलं यातखण्डेक्येन युतं लघ्वी ज्यका स्यात् । एवमत्र त्रिभज्या खाकं १२० मिता स्यात् । तथा जिनांशज्या पादोना नवाञ्चयः ४८ | ४५ । अत्रोत्क्रमज्यानां पृथक् पाठाभावात् कथमुत्क्रमज्याः साध्या इत्यत आह । 'स्यादुत्क्रमज्यात्र विलोमखण्डैरिति । अथ धनुःसाधनम् । यस्य धनुः साध्यते तस्मादाद्यखण्डादारभ्य यावन्ति खण्डकानि शुद्धचन्ति तावन्ति शोधयेत् । शेषाद्दश गुणादशुद्धखण्डभक्ताद्यल्लब्धमंशाद्यं तद्विशुद्धखण्डसङ्ख्यागुणैदशभियुंतं धनुः स्यात् । अत्रोपपत्तिः प्राग्वदनुपातेन । अत्र यावद्यावन्मद्वयासाधं बहूनि च खण्डानि तावत् तावत् स्फुटा ज्या स्यात् । तदन्यथा स्थूला | अत उक्तं 'भोग्यात् स्फुटाज्ज्यातिपरि- स्फुटात्रेति ॥ ११३-१५ ॥ इदानीं भोग्यखण्डस्पष्टीकरणमाह - यातँस्ययोः खण्डकयोर्विशेषः शेषांशनिघ्नो नखहृत् तद्नम् । युतं गरौँष्यैक्यदलं स्फुटं स्यात् क्रमोत्क्रमज्याकरणेऽत्र भोग्यम्' ॥१६॥ १. अत्र बापूदेवोक्तोपपत्तियथा - श्रेढ्या प्रत्येक राशीनामित्यादिना प्रकारेण यत्र परम्प- राणामियत्ता स्यात् तस्याः श्रेढ्या सर्वधनं निरन्तरमवगन्तुं शक्यते । यत्र च परम्पराणामानन्त्यं तत्र यथायथा परम्परा अधिका गृहीत्वा सर्वधनं साध्यते तथातथा तदासन्नं सूक्ष्मतरच भव- ति । इत्यनयैवासन्न सर्वंधनानयनयुक्त्या लघुज्याखण्डरूपश्रेढ्या येषामंशानां ज्या साध्या