सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १०३ १५४ । १६४ | १७४ | १८३ | १९१ । १९९ । २०५ | २१० | २१५ । २१९ । २२२ । २२४ | २२५ ॥२-९३ ॥ वा० वा०—अथ ज्याचापसाधनं विवक्षुस्तत्राधंज्या साधने कारण माह- अर्द्धज्या इति गोलाकारा ग्रहकक्षास्तत्र भूगर्भावस्थितिकल्पनया दृष्टुर्ग्रहसमवेतं कर्म साधयितुं युज्यते । अत्र भूगर्भाद् ग्रह 'गोलस्थोच्चप्रदेशं यावदूर्ध्वाधरसूत्रं तथा च नोच- प्रदेशं यावत् सूत्रमेकं मध्यसूत्रमित्युच्यते । उच्चप्रदेशान्नीचावधिभूगर्भं स्पृशत् सूत्रं मध्यसूत्रमित्यर्थः । तत उच्चप्रदेशादग्रतः पृष्ठतश्च परिधौ केन्द्रं दत्वा चिन्हद्वयं कुर्यात् । तच्चिन्होपरि या ज्यारुपा रेखा सा ग्रहकेन्द्रभुजजीवा सम्पूर्णा भवति । अस्याः सम्पूर्णजीवायाः मध्यसूत्रस्य यः सम्पातस्त- स्मादुच्चप्रदेशं यावदूर्ध्वाधरसूत्रं सा कोटि: । सम्पाताद् ग्रहावधि या खल्वर्द्धज्या स भुजः । भूगर्भाद् ग्रहोपरिनीयमानं सूत्र कर्णः । अत्र मध्यरेखाया: ग्रहोर्द्धज्ययैव तिर्यक् संस्थो जातस्तस्माच्छोभनमुक्तम् । ज्योत्पत्तिस्तद्गणितञ्च गोलाध्याये वक्ष्यते । बृह- ज्ज्याभिर्ज्याचापसाधनं लघुज्याभिश्च तद्वासना च भाष्ये स्पष्टा ॥ २-१५ ॥ इदानीं ज्यासाधनमाह | तत्त्वाशिवभक्ता असवः कला वा यल्लब्धसंख्या गतशिञ्जिनी सा |॥१०॥ यातैष्यजीवान्तरशेषघातात् तत्त्वाखिलब्ध्या सहितेप्सता स्यात् । वा० भा० – यदि कलानां जीवाः साध्यास्तदा ताः कलास्तस्वाशिवभि २२५ भज्याः | यदि कालावयवस्य तदासवस्तत्त्वाश्विभिर्भाज्या: । यल्लब्धं तत्संख्या ग्राह्या । यातैष्यजोत्र- योरन्तरस्य शेषकलानां च घातात् तत्त्वाश्विभक्ताद्या लब्धिस्तया लब्ध्या सहिता सतीप्सिता स्यात् । अत्रोपपत्तिः । चतुर्विंशतिः किल ज्यार्थानि । वृत्तचतुर्थांशे कलाः खखाब्धिविषयाः ५४०० | आसां कलानां चतुर्विंशतिभागस्तत्त्वाश्विनः २२५ । अतो गतकलासु तत्त्वारिवहृतासु गतज्या लभ्यन्ते । अथ वृत्तं ज्याग्रयोरन्तरं तत्त्वाशिवकलामितधनुःखण्डम् । यद्यनेन धनुःखण्डेन गतागतज्यान्तरतुल्यं ज्याखण्डं लभ्यते तदा शेषकलातुल्येन किमिति । फलेन युक्ता सती गत- ज्येप्सिता स्यादित्युपपन्नम् ॥ ९३-१०३ ॥ अथ धनुःकरणमाह । ज्यां प्रोज्य तत्वाश्विहतावशेषं यातैष्यजीवाविवरेण भक्तम् ||११|| जीवा विशुद्धा यतमात्रतद्नैस्तत्वाश्विभिस्तत् सहितं धनुः स्यात् । वा० भा० --- यस्य धनुः कार्यं तस्माद्या जीवा विशुध्यति सा शोध्या। शेषात् तत्वाश्वि- गुणाद्गतागतज्यान्तरहृताद्यल्लभ्यते तत् स्थाप्यम् । ततो यतमा जीवा विशुद्धा तद्गुणितैस्त- त्वाश्विभिः सहितं धनुः स्यात् ।। १०३ – ११३ ।। १. ग्रहगोलेस्थो इति ग पु० ।