पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७ ) किन्तु 'वासनावात्तिककारेण नृसिंहेनाऽस्मिन् विषये कथितमस्ति यदनेनाचार्येण तु पूर्वं ग्रहगणितं कृतम् । ततः पाताध्यायानन्तरं पाटीकुहकवर्गप्रकृतिबीजसूत्राणि संक्षेपेण विरचितानि । ततो गोलाध्यायस्य 'ईषदीषदिह मध्यगमादौ' इत्यन्तं विरचितः । ततो यन्त्राध्यायः, तदन तर मयं प्रश्नाध्यायो रचित इति प्रश्नोत्तराणि पाट्यादिभिः कथितानीत्युक्तम् । यतः सन्ति क्वचिदीदृशान्यपि सिद्धान्तशिरोमणिपुस्तकानि । ईदृशं सिद्धान्तशिरोमणिपुस्तकं विरचयपोदाहरणयोजनासहितानि बीजपुस्तकानि सूत्र- विशेषसहितानि विहितानि । एवं लीलावतीबीजपुस्तके विरचय्य गोलाध्यायभाष्यं कृतम् । तदनन्तरं ग्रह- गणितभाष्यं निर्मितमित्याचार्यग्रन्थादेवोपलभ्यते । यथा - व्याख्याता प्रथमं तेन गोले या विषमोक्तय: २ । 'अत्रोपपत्तिर्गौले समं भसूर्या' इत्यादिना कथिता व्याख्याता च । 'तत्कारणं गोले कथितम्', 'यथा गोले कथितम् । 'इत्यादिना गोले सम्यग भिहिता', 'अस्योपपत्तिर्गोले कथितैव', 'तात्कालिकीकरण- कारणता गोले कथिता" इत्यादिवाक्यः प्रथमं गोलाध्यायस्यैव भाष्यं कृतमिति स्पष्टं परिज्ञायते । बीजगणितकुट्टकप्रकरणस्य 'कल्प्याऽथ शुद्धिविकलावशेषम्" इत्यादिश्लोकस्य विवृतौ भास्करेणोक्तमस्योदाहरणानि प्रश्नाध्या – इति कथनेन प्रश्नाध्यायानन्तरमेव • बीजपुस्तकनिर्माणं सिद्धयति । अस्यान्या रचनाः साम्प्रतमस्यान्य ग्रन्थः करणकुतूहलाख्य उपलभ्यते, तथा गोलाध्यायस्य यन्त्रा- ध्याये नाडीवलययन्त्रप्रतिपादने अस्यैकस्य सर्वतोभद्रयन्त्राख्यस्य ग्रन्थस्यापि परिचयो लभ्यते । यथोक्तं तेन ‘स चाङ्कनप्रकारः सर्वतोभद्रयन्त्रे मया पठितः । १° परमयं ग्रन्थो नाद्यावधि कैरपि संदृष्टः । अस्य ग्रन्थकारस्य 'भास्करव्यवहारविवाहपटलांख्ययो- मुहूर्तग्रन्थयोरप्युल्लेखो बहुधोपलभ्यते । १. सि० सि० ४८२५० ३. सि० शि० ४७ पृ० । ५. सि०शि० ५६ पृ० । २. सि०शि० ३ १० । ४. सि०शि० ५४ पृ० । ६. मि०शि० १३१ पृ० । ८. सि०शि० १५० पृ० । ७. सि०शि० १३२ पृ० । ९. बी० ग० कु० ३७ श्लो० । १०. सि० शि० ४४१ पृ० ।