पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा--
( ६ )
वंशावली
शिलालेखाधारेणाचार्यस्य पूर्वापरपुरुषाणां नामावली यथा--
‘शाण्डिल्यवंशे' कविचक्रवर्ती त्रिविक्रमोऽभूत्तनयोऽस्य जातः' इत्यादिना ।
त्रिविक्रमः

भास्करभट्टः
गोविन्दः
प्रभाकर:
1
मनोरथ:
1
महेश्वरः

भास्करः
लक्ष्मीधरः
1.
चङ्गदेवः
रचनाकालः
ग्रन्थस्यास्य रचनाप्रसङ्गे स्वयमेवाचार्यभास्करेण लिखितमस्ति । यथा
“ रसगुणवर्षेण मया सिद्धान्तशिरोमणी रचितः” २
अस्माद्धेतोरस्य रचनासमयः १०७२ शकः । इतोऽपि पूर्वं भास्करेण शिष्यधी-
वृद्धिदनामकलल्लकृतग्रन्थस्य टीका कृतेति वासनावात्तिकावलोकनेन स्पष्टं परिचीयते ।
तत्पश्चादेव भागचतुष्टयात्मकं सिद्धान्तशिरोमणिनामकं सिद्धान्तग्रन्थमरचयत् षट्त्रिंशद्-
वर्षे वयसि ।
अत्रापि प्रथमं कस्य भागस्य रचना कृतेति विचारेऽस्य प्रथमो भागः पाटी-
गणितं लीलावती वेति, द्वितीयो बीजगणितम्, तृतीयो ग्रहगणितम्, चतुर्थश्च गोलाध्या-
यात्मको भाग इति जनश्रुतिः ।
१. भा० ज्यो० ३४३ पृ० ।
२. सि० शि० प्रश्ना० ५८ श्लो० ।