पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५ )
जन्मस्थली
अस्य महाप्राज्ञस्य सह्यपर्वतोपान्ता - ज्जडविडाख्या साम्प्रतं बोजापुराभिधानेति
परिज्ञायते तदुक्तेन । यथा-
आसीत् सह्यकुलाचलाश्रितपुरे त्रै विद्यविद्वज्जने ।
नानासज्जनधाम्नि विज्जडविडे शाण्डिल्यगोत्रो द्विजः ॥ १
अत्र केचन' 'जडविड' इत्येव भास्करग्रामाभिधानं भणन्ति । ते खलु विद्
जडविडे इति पहच्छेदं कुर्वन्ति । तथा च विच्छन्दो महेश्वरकृतिनो विशेषणरूप इति
स्वीकुर्वन्ति ।
अन्यैश्च विज्जड विडस्याद्यद्वयशब्दलोपात् 'वोड' इति ग्रामनामासीदिति
प्रकल्प्यते । परन्त्वस्थान्यस्त्रोक्तेः शङ्करबालकृष्ण दीक्षितेन स्वेतिहा से खण्डनं विहितम् ।
अकबरनाम्ना राज्ञा १५८७ ई० वर्षे १५०९ शके भास्करस्य पाटीगणितस्य
पशियनभाषायामनुवादः कारितः । तत्रानुवादकेनाऽस्य जन्मभूमिः कुत्रचिद् दक्षिणभारते
'वेहर' नाम्नीति स्त्रीकृता । परमियमपि असंबद्धैव, सह्याद्रिसन्निकर्षाभावात् ।
खानदेशे चालीसग्रामाभिधात् कस्माचित् स्थानान्नैर्ऋत्यदिशि पञ्चक्रोशाभ्यन्तरे
पाटणाख्यो ग्राम आसीत् । तत्रत्ये भवानीमन्दिरे एकः शिलालेखो भास्कराचार्यपौत्रेणो-
टङ्कित:, डॉ. भाऊंदाजीनाम्ना परीक्षितश्च । तत्र भास्करग्रामनाम 'पाटण' इति
संभाव्यते ।
भास्करानुसारं सह्यावलाश्रितमस्य सविधे वा 'विज्जडविड' ग्राममासीदिति
साम्प्रतं प्रसिद्धिस्तस्यापरनाम्नास्तीति प्रतीयते ।
जनको गुरुच
अस्य जनको गुरुश्च शाण्डिल्यगोत्रोद्भवः 'महेश्वराचार्यः' इति तद्वाक्यबलेनेव
सिद्धयति । यथा-
आसीन्महेश्वर इति प्रथितः पृथिव्या-
माचार्यवर्यपदवीं
विदुषां
• लब्धावबोधकलिकां तत एव चक्रे
१. सि०शि० ५२४ पृ० ।
२. गणक० ३६ पृ० ।
४. गणक० ३८ १० ।
प्रपन्नः ।
तज्जेन बीजगणितं लघुभास्करेण ॥
३. भा० ज्यो० ३४५ पृ० ।
५. बी० ग० उप सं० १२ लो०