( ४ ) सर्वप्रथमाचार्यार्यभटेन विरचितो 'आर्यभटीयनामक ग्रन्थो दृष्टिपथं समायाति । तदनन्तरं वराह मिहिरेण 'पञ्चसिद्धान्तिका' विहिता । ततो ब्रह्मगुप्तस्य 'ब्राह्मस्फुट- सिद्धान्तः’। तत्पश्चाल्लल्लस्य 'धीवृद्धिदः' तन्त्राख्यो ग्रन्थो ग्रहगणितगोल्योरस्ति । तत्पश्चादन्येऽपि ग्रन्था अन्यै रचिताः सन्तीति । सिद्धान्तशिरोमण्याख्यस्यास्य ग्रन्थस्य तु प्रणेता भास्कराचार्य:, तर्हि कोऽसौ भास्कर इत्युच्यते । इदानीं भास्करद्वयस्य प्रसिद्धिरिति सर्वे जानन्त्येव । प्रथमभास्करः अस्य साम्प्रतमस्माकं ग्रन्थत्रयाणां १. आर्यभटीयभाष्यम्, २. महाभास्करीयम्, ३. लघुभास्करीयञ्चेति परिचयो प्राप्यते । अय हि कुत्रत्य आसीदित्यसंदिग् वक्तुं न पार्यते । यतोऽनेन स्वतः कुत्रापि स्त्ररचनायां स्वसम्बन्धे न किमपि लिखितम् । शङ्करबालकृष्णमहोदयेन त्वस्य चर्चाऽपि न कृता स्वभारतीयज्योतिषस्येति- हासाभिधे ग्रन्थे । महद्दुःखास्पदं यत् प्रथमतो प्रथमभास्करस्य चर्चा न केनापि भारतीयेनापि तु इङ्ग्लैण्डवास्तव्येन 'एच० कोलब्रूक' नाम्ना विदुषा १८१७ ई० वर्षे निबन्धे कृता । अनन्तरञ्च श्री बी० बी० दत्तमहोदयेनाऽस्य विषये १९३० ई० वर्षे स्वनिबन्धे विस्तृतं विवेचनं कृतम् । पुनः १९३१ ई० वर्षे 'ए शार्ट क्रानालाजी आव इन्डियन एस्ट्रा नामी' नाम्नि ग्रन्थेऽस्योल्लेखः कृतः । सर्वतः पश्चात् १९६० ई० वर्षे लखनऊ- श्वविद्यालयद्वारा 'महाभास्करीय-लत्रुभास्करीय'योराङ्ग्लानुवाद व्याख्या टिप्पण्यादि हितं प्रकाशन जातम्' । द्वितीयभास्करः प्रस्तुतग्रन्थकारो द्वितीयभास्कर इत्यत्र नास्ति विवादस्यावसरः | द्वितीय- भास्करस्य वंशावली - जन्म स्थान कालरचनादिविषये स्वयमेव हि तेनाऽत्मीयपरिचयोऽस्य ग्रन्थस्य प्रश्नाध्यायान्ते प्रदत्तः । यथा----- रसगुणपूर्णमहीसमशकनृपसमयेऽभवन्ममोत्पत्तिः । रसगुणवर्षेण मया सिद्धान्तशिरोमणी रचितः ॥ २ अनेन कथनेनाऽस्य जन्मकाल: १०३६ शकः, १११४ ईसवीयवत्सरश्च सिद्धयति । १. ल० वि० प्र० महा० भू० । २. सि० शि० ५२४ पृ० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१२
दिखावट