पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः भूपृष्ठनिष्ठनरदृष्टिविकारमास्यं स्पष्टत्वमेव खचरस्य न तद्यथार्थम् । यद्दृष्टिबन्ध करणेन्द्रियजालवत्तत् तुङ्गस्य कर्षणममुत्र विकारहेतुः ॥ ४ ॥ स्पष्टभुक्तेस्तु सिद्धयर्थं मन्दस्पष्टा च मध्यमा । कल्पितेत्येव वक्तव्यं राद्धान्तोऽयं महात्मनाम् ' ॥ ५ ॥ फलादेशादिकार्यार्थं स्फुटकर्म्माश्रितं बुधैः । स्फुटैव युक्ता तस्यास्तु य [था] र्थानुभवो यतः ॥ ६ ॥ तुङ्गस्याकर्षणो भानमनुमानादि चेद्भवेत् । प्रत्यक्षेणैव बाध्यं तयुक्ता स्पष्टा गतिस्ततः ॥ ७ ॥ ॥ १॥ इदानीमधंज्याकरणं ताश्चाह । अर्धज्याग्रे खेचरो मध्यसूत्रात् तिर्यक् संस्थो जायते येन तेन । अर्धज्याभिः कर्म सर्व ग्रहाणामर्धज्यैव ज्याभिधानात्र वेद्या ॥ २ ॥ तत्त्वाश्विनो नन्दसमुद्रवेदाश्चन्द्राद्रिषट्का गगनाङ्कनागाः । पञ्चाभ्ररुद्रास्तिथिविश्वतुल्या आद्यैर्निरुक्ता नखबाणचन्द्राः ३॥ नन्दावनीशैलीभुवो दिगङ्कचन्द्रा हुताशग्रहपूर्ण दस्राः । तुरङ्गषट्काकृतयः कुरामसिद्धाः शराष्टेषुयमाः क्रमेण ॥ ४ ॥ गजाश्विभान्यङ्कशराष्टदस्रास्तुरङ्ग सप्तग्रहलोचनानि अम्भोधिकुम्भ्यभ्रगुणास्तुरङ्गशैलेन्दुरामा रसभूतदन्ताः ॥ ५ ॥ । यथा- मोनाजादावतिशयचला गोघटादौ च शै केन्द्र मिथुनमकरादौ च नैसर्गिकी कर्काद्य भवति धनुषश्चान्त्यखण्डे च चापाद्यर्धे शशिभशकलेऽन्त्येति मन्दा १०१ ३. "ततः परं नागहयाङ्क बाहवः" इति धीवृद्धिदे । "वस्वद्यूमयमास्तथा" इति सूर्यसिद्धान्ते । किन्तु "तुरङ्गसप्तग्रहलोचनानि" इति पाठः साधुः । शीघ्रा, स्यात् । मन्दा, प्रदिय । सि० शे० ३ अ० ६० श्लो० । १. महान्मानमिति गपु० । - २. अत्र श्रीपतिः – ‘अर्धज्याग्रे सन्निविष्टं ग्रहेन्द्रं कक्षावृत्तान्त: स्थितो वीक्षते हि । दृष्टा यस्माज्ज्यादलैरेव तस्मात् कर्म प्रोक्तं न ह्यखण्डज्यकाभिः' । ( सि॰ शे० १६ अ० १८ श्लो० )