पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सिद्धान्तशिरोमणौ ग्रहगणिते ग्रहकेन्द्रं कुत्र संलग्नमित्यवलोकनीयम् । ततस्तद्वेधवलयं गोले लक्षितग्रहचिन्होपरि निवेश्यम्। तस्मिन्निवेश्यमाने वेधवलयं यंत्र क्रान्तिवृत्ते लगति तत्सर्वैः क्रान्तिवृत्त- ग्रहस्थानमित्युच्यते । तदेव स्पष्टग्रहस्थानम् । तत् स्पष्टग्रहस्थानस्य रेवतीयोगतारायाश्च क्रान्तिवृत्तं यावदन्तरं तावान् स्पष्टो ग्रह इति वैदिकानां मतम् । स्पष्टग्रहस्थानस्य क्रान्तिमण्डलनाडीमण्डलसम्पातस्य क्रान्तिवृत्ते यावदन्तरं तावान् सायनो ग्रह इत्युच्यते । यवनास्तु सायनग्रहमेव स्पष्टग्रहत्वेन व्यवहरन्ति । तच्छास्त्रे तादृश एव फलादेशार्थं स्वीकृत इति न किञ्चिद्वाधकम् । एवं गोले लक्षितग्रहचिन्होपरि ध्रुवा- न्नीयमानं वलयाकारं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्र कृतहक्कमको ग्रह इति वेद्यम् । तत्र सायनो ग्रहः क्रान्तिचरलग्नानयनादावुपयुज्यते । कृतदृक्कर्मकस्तृदयलग्नग्रहोन्नतांशा 'स्त दावुपयुज्यते । स्पष्टस्तु सर्वत्रैवोपयुज्यते । मन्दधियस्तु तात्पर्यमजानन्तो भ्राम्यन्तु नाम । तस्मात् स्पष्टो मुख्यस्तद्वशेन स्पष्टा गतिः । साष्टप्रकारा मुख्येति । इदमेवाक्षिप्य समाधीयते । न मन्दातिमन्दा न शीघ्रातिशीघ्रा न वक्रातिवक्रा समा ख्यात्मिका न । अमृषा स्पष्टते तर्हि चाष्टौ प्रभेदा यतो नानया यान्ति नीचोच्चवृत्ते ॥ १ ॥ तस्मान्मन्दस्फुटा भुक्तिर्वास्तवा सा च पञ्चधा । समा मन्दातिमन्दा च शीघ्रा शीघ्रतरेति च ॥ २ ॥ एतासां पूर्वमुक्तानां लक्षणं समुदाहृतम् । सौरभाष्ये' यतोऽस्माभिरंधुना नोच्यते ततः ॥ ३ । १. स्तादानुययुइति गपु० ३. कुटिला शून्यात्मिकेत्यर्थः । ५. सूर्यसिद्धान्ते ग्रहाणामष्टघा गतियथा- 'वक्रांतिवक्रा विकला मन्दा मन्दतरा समा । तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः । स्पष्टा० १२ श्लो० । २. ४. समारवा इति क ख पु० । तेहि इति क ख ग पु० । ६. आसामष्टविधगतीनां भाष्ये लक्षणं यथा १ वक्रारम्भ-मार्गारम्भयोर्या गतिः सा कुटिला विकला इति वा भावः । २ वक्रगती अत्यं या क्षीयमाणा वक्रा सैव वक्रेति | ३ या च वर्द्ध माना वक्रा सातिवक्रेति । ४ मध्यगतेरल्पा क्षीयमाणा ऋज्वी सा मन्दतरेत्युच्यते । ५. या तु मध्यगतेरल्पा ऋज्वी वर्धमानां सा मन्देत्युच्यते । ६ या तुम क्षीयमाणा ऋज्वी सा शीघ्रत्युच्यते । ७ या तु मध्यगतेरधिका वर्धमाना ऋज्वी साति- शीघ्रंत्युच्यते । ८ मध्यमगतिसमा या गतिः सा समेत्युच्यते । रग्तासां राशिविशेषेषु स्थाननिर्देश: श्रीपतिना सिद्धान्तशेखरे प्रतिपादितः ।