पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः फलादेशे स्फुटा एव स्वीकार्या न तु मध्यमाः । अत्र' लिङ्गान्यनेकानि यात्रायां तावदुच्यते ॥ यस्योदयास्तारिचतुस्त्रिसंस्थाः शुक्राङ्गिरोङ्गारकसौम्यसौराः । द्विषद्बलस्त्रीवदनानि तस्य क्लान्तानि कान्तानवलोकयन्ति || लग्नशुक्रात् सुखे चान्द्रर्न स्यात्स्पष्टक्रियां विना । मध्यगत्या तयोरैक्यात् फलं स्पष्टाश्रयं ततः ॥ विवाहे च -- रविकविरविजेन्दुभिः क्रमेण व्ययधनषण्निधनेषु कूर्म्म एषः । इह विहितकरग्रहा गृहाणि भ्रमति भुजष्यतयापरः शतानि ॥ अत्रापि व्ययस्थे रवौ धनस्थ : शुक्रः स्पष्टत्वेनैव भवति । जातके च- एकान्तरगतैरर्थात् समुद्रः षड्गृहाश्रितैः । विलग्नादिस्थितैश्चक्रमित्याकृतिजसङ्ग्रहः ॥ अत्रापि रविबुधशुक्राणामेकान्तरादिगतत्वं स्फुटत्वे संभवति । प्रश्नेऽपि । जीवो वा शशधरनन्दनोऽपि वार्कः शुक्रो वा यदि चरलग्नमाश्रितः स्यात् । निर्देश्यं गमनमिहापि मार्गतः स्याद् व्यावृत्तिः स्थिरंतनुगा भवन्त्यमी चेत् || अत्र रविबुधशुक्राणां मध्यमत्वे विकल्पो नावकल्पते । तथा च शाखास्कन्धे । वक्त्यारोप्यु"द्गमर्क्षान्नगवसुनवमेऽग्निस्त्रिके तोयवृष्टी । रुग्युग्मेऽतोऽहिभीतीर्मुखरुगपरयोश्चान्ययोश्चौरभीतिः इति । कुजस्यो 'ष्णादिवक्रत्वस्पष्टत्वेनैव संभवतीत्येवमादीनि फलस्य स्पष्टखेटाश्रयत्वं गमयन्ति । ग्रहयोगशृङ्गोन्नमनाद्यं ग्रहगणितं स्पष्टखेटेभ्य एव क्रियत इति वक्ष्यमाणा- धिकाराणामयमधिकारोऽत्यन्तमुपयुक्तः । एवामुमधिकारमुपकरणाधिकारमित्याचक्षते । तस्माच्छोभनमुक्तं ९९ अत स्फुटैरेव फलस्फुटत्वमिति । स्फुटक्रियेति । ग्रहस्य स्पष्टत्वं प्रत्यक्षत्वं यन्त्रवेधेन रेवत्याः सकाशात्क्रान्ति- मण्डलावयवे भाद्येकस्मिन् ग्रहावस्थितिरिति ज्ञानमिति यावत् । तदुपयोगिनी क्रिया स्फुटक्रियेत्यर्थंः। गोलब न्धोक्तविधिना गोलयन्त्रं तत्र च कदम्बद्वयकीलयोः प्रोतं वेधवलयञ्च निवेश्य तद्गोलयन्त्रं जलसमक्षितिजवलयं यथा भवति तथा स्थिरं ध्रुवाभिमुखयष्टिकं च कृत्वा गोलस्थमीनान्तं रेवतीतारायां निवेश्य गोलमध्यस्थदृष्ट्या १. लिंगन्यन्ते ग पु० । ४. बृ० ज० १२ अ० ९ श्लो० । ६. स्योष्मादि क ख पु० । ३. त्रमति इ० ग पु० । ५. रोप्यद्गम इति क ख पु० । ७. वन्धाक्तवि इति गपु० । २. तवटुच्य ख पु०