पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सिद्धान्तशिरोमणी ग्रहगणिते वा० वा०- - जगद्गुरोः पितृव्यस्य पादावानम्य भक्तितः । स्पष्टाधिकारेऽपूर्वोक्त्या क्वचित्किञ्चिदिहोच्यते ॥ १ ॥ स्फुटक्रियोपयोगाय मध्यमानयनं कृतम् । स्फुटक्रियारभ्भणस्य प्रयोजनमथोच्यते ॥ २ ॥ सौरभाष्येऽपि- संसाध्य स्पष्टतरं बीजं दलिकादियन्त्रेभ्यः । तत्संस्कृतास्तु सर्वे पक्षा: साम्यं भजत्येव ॥ वसिष्ठसिद्धान्तेऽपि इत्थं माण्डव्यसंक्षेपादुक्तं शास्त्रं मयोत्तमम् । विस्रस्ती रविचन्द्राद्यैर्भविष्यति युगे युगे ॥ सिद्धान्तसुन्दरेऽपि -- ( जा० सा० दी० १७ अ० ७ श्लो० ) दामोदरपद्धतौ च - ( हो० २० २ अ० ग्रहा० ३४ श्लो० ) मुनि प्रणोते मनुजैः क्वचित्ते दृश्यतेऽन्तरम् | तदा तदेव संसाध्यं न कायं सर्वमन्यथा ॥ ( हो० २० २ अ० ग्रहा० ३६ श्लो० ) यान्ति संसाधिता: खेटा येन दृग्गणितैक्यकम् । पण ते कार्या: स्फुटास्तत्समयोद्भवाः ।। ( हो० २० २ अ० ग्रहा० ३२ श्लो० ) अपि च श्रीगणेशदैवज्ञेन बृहत्तिथिचिन्तामणौ स्पष्टतया दृग्गणितैक्यस्यैव प्रधानत्वं स्वीकृत - मस्ति । यथा - ब्रह्माचार्यंव सिष्ठकश्यपमुखैयंत् खेटकर्मोदितं तत् तत्कालजमेव तथ्यमथ तद्भूरिक्षणेऽभूच्छलथम् । प्रापातोऽथ मयासुरः कृतयुगान्तेऽर्कात् स्फुटं तोषितात् तच्चास्ति स्म कलौ तु सान्तरमथाभूच्चारुपाराशरम् ॥ १ ॥ तज्ज्ञात्वार्यभट : खिलं बहुतिथे कालेऽकरोत् प्रस्फुटं तत् त्रस्तं किल दुर्गंसहमिहिराद्यैस्तन्निबद्धं स्फुटम् । तच्चाभूच्छिथिलं तु जिष्णुतनयेनाकारि वेषात् स्फुटं ब्रह्मोक्त्याश्रितमेतदप्यथ बहौ कालेऽभवत् सान्तरम् ॥ २ ॥ श्रीकेशवः स्फुटतरं कृतवान् हि सौरार्यासन्नमेतदपि षष्टिमिते गतेदे | दृष्ट्वा श्लथं किमपि तत्तनयो गणेशः स्पष्टं यथा स्वकृतदृग्गणितैक्यमत्र ॥ ३ ॥ कथमपि यदिदं चेद्भूरिकाले श्लथं स्यात् मुहुरपि परिलक्ष्येन्दु ग्रहाद्यक्षयोगम् । सदमलगुरुतुल्यप्राप्तबुद्धिप्रकाश: कथितसदुपपत्त्या शुद्धिकेन्द्र प्रचाल्ये ॥ ४ ॥