पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ स्पष्टाधिकारः अत्राधिकारे ग्रन्थसंख्या नवशतानि | ६००। इदानीं स्पष्टगतिर्व्याख्यायते । तत्रादौ तदारम्भप्रयोजनमाह -- यात्राविवाहोत्सवजातकादौ खेटैः स्फुटैरेव फलस्फुटत्वम् । स्यात् प्रोच्यते तेन नभवराणां स्फुटक्रिया दृग्गणितैक्यकृया ॥ १ ॥ १ वा० भा० – स्पष्टार्थम् ॥ १ ॥ १. जातकसारदीपेऽपि प्रस्फुटयुचराधीनमेव सर्वं फलमिति निगदितमस्तिः । यथा विवाहे जातके यात्रा प्रश्नवास्तु व्रतादिषु । op ज्योतिश्शास्त्रात् फलं सर्वं प्रस्फुटद्युचराश्रयम् । १७ अ० २ श्लो० । f २. दृग्गणितैक्यसंस्थापनार्थमत्र ग्रन्थान्तरवाक्यानि | जातकादिषु सर्वत्र ग्रहैर्ज्ञानं प्रजायते । तस्माद्गणितक्तुल्यात्स्वतन्त्रात्साधयेद् ग्रहान् ॥ तत्तु सम्यक् प्रकारेण प्रवक्तुं नैव शक्यते । सिद्धान्तानान्तु सर्वेषां साम्यन्नास्ति मिथो यतः || प्रत्यक्षसमयाच्चैते येन पक्षेण यत्र वै । स्फुटं दृक्तुल्यतां यान्ति तेन सर्वविनिर्णयः ॥ अन्यच्च ज्योतिर्विवरणे- यात्रोद्वाहप्रभृतिषु फलं स्पष्टखेटाश्रयं यत् जा० सा० दी० १७ अ० १, ३-४ श्लो० । • तस्मात्तत्साधन इह बुधैर्भाषतेऽपि क्वचित्ते । स्पष्टा न स्युः परमपुरुषांशाश्चला लक्ष्यचारा- स्तस्मात्साध्या बहुविधमतैन कपक्षाभिमानः || अन्यच्च ब्रह्मसिद्धान्तेऽपि - तथा च वसिष्ठः – यस्मिन् पक्षे यत्र काले येन दृग्गणितैक्यकम् । दृश्यते तेन पक्षेण कुर्यात्तिथ्यादिनिर्णयम् ॥ सि० - १३ जा० सा० दी० १७ अ० ५ श्लो० । ( जा० दी० १७ अ० ६ श्लो० ) संसाध्य स्पष्टतरं बीजं नलिकांदियन्त्रेभ्यः | तत्संस्कृतग्रहेभ्यः कर्तव्यो निर्णयादेशौ || ( हो० २० २ अ० ग्रहा० ३५ श्लो० )