पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ सिद्धान्तशिरोमणौ ग्रहगणिते पञ्चभिः पञ्चभृभिः कराभ्यां हृतं भानुचन्द्रेज्यशुक्रेन्दुतुङ्गेष्वृणम् । इन्दुना दस्रबाणैः कराभ्यां कृतै भौमसौम्येन्दुपातार्किषु स्वं क्रमात् ||८|| वा० भा० - स्पष्टम् ।. अत्रोपलब्धिरेव वासना । यद्वर्षसहस्रषट्कं यावदुपचयस्ततोऽपचय इत्यत्रागम एव प्रमाणं नान्यत् कारणं वक्तुं शक्यत इत्यर्थः ॥ ७-८ ॥ अथाधिकारोपसंहारे इलोकद्वयं युक्तियुक्तमाह | यद्ग्राम्यैरपि विस्तृतं बहुतरैस्तन्त्र प्रकारान्तरै- र्मन्दानन्दकरं तद निपुणै: प्राज्ञैरवज्ञायते । आख्याते पृथुता सगोलगणिते व्यर्था हि तस्मान्मया संक्षिप्तं नच विस्तृतं विरचितं रञ्ज्यो हि सर्वो जनः ॥ ९ ॥ रूपस्थानविभागतो दृढगुणच्छिद्भ्यां च संचारतो नानाच्छेदविभेदभिन्नगुणकर्नानाप्रकारेष्वपि । आद्याद्यत्र विचित्रभङ्गिभिरभिप्रेतप्रसिद्ध्यै क्रिया लघ्वी वाथ समा तदेव सुधिया कार्य प्रकारान्तम् ।। १० ।। वा० भा० -- स्पष्टार्थमिदं श्लोकद्वयम् ।। ९-१० ।। इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे मध्यगतिसाधनाधिकारः प्रथमः ॥ १ ॥ १. अत एव विष्णुदैवज्ञः । यद्यत् क्रियालाघवमत्र तन्त्रे तत् तद् गुरुत्वाय भवेत् कृतीनाम् । क्रियागुरुत्वान्नितरां लघुत्वमहो विचित्रा गणितप्रसक्तिः ॥