पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भूपरिध्याद्यध्यायः अर्कोदयादूर्ध्वमधश्च ताभिः प्राच्यां प्रतीच्यां दिनपप्रवृत्तिः । ऊर्ध्व तथाधश्चरनाडिकाभी रवावुदग्दक्षिणगोलयाते' |॥६॥ वा० भा० -- यः किल मध्यरेखाया अपरिज्ञानात् ततः प्राक् पश्चाद्वा स्थितोऽस्मीति न वेत्ति तेनैवं ज्ञातव्यम् । विधुग्रहणदिने घटिकायन्त्रेण स्पशंकाले रात्रिगतं ज्ञेयम् । अथच गणितेन स्पशंकालो ज्ञेयः । गणितोत्थकालादनन्तरं प्रग्रहणं यदि दृष्टं तदा द्रष्टा रेखात: प्राग्भूविभागे । यतो द्रष्टा यथा यथा रेखात: प्राग्व्रजति तथा तथा रेखोदयात् प्रागेवाकोंदयं पश्यति । इतोऽन्यथा चेत्तदा पश्चाद् द्रष्टा । दृग्ग्रहणप्रग्रहणकालयोरन्तरं देशान्तरघटिकास्ताभिर्गुणितं षष्ट्या हृतं स्पष्टभूवेष्टनम् । एवमनुपाताद्देशान्तरयोजनानि । अथवा कि योजनँः | यदि षष्ट्या गति- र्लभ्यते तदा देशान्तरघटीभिः किमिति एवं यत् फलमुत्पद्यते तत् प्रागुणं पश्चाद्धन मिति युक्त- मुक्तम् । तथा प्राच्यां तामिर्घटीभिदिनवारप्रवृत्तिरदयादूर्ध्वं भवति । प्रतीच्यान्तु तस्मादयः । यतो लङ्कोदये वारादिः । अत एव च रवावुत्तरगोलस्थे । चराघंघटिकाभिरुवंम् । यतस्तदोन्मन्डलं क्षितिजादूर्ध्वम् । दक्षिणे त्वथोऽतस्तत्रोदयादधो वारप्रवृत्तिरिति सर्वं निरवद्यम् ।। ४-६ ।। इदानीं ग्रहाणां बोजकर्माह । खाभ्रखार्कैर्हृताः कल्पयाताः समाः शेषकं भागहारात् पृथक् पातयेत् । यत्तयोरल्पकं तद्विशत्या २०० भजेल्लिप्तिकाद्यं फलं तत् त्रिभिः सायकैः ।।७।। १. अत्र ब्रह्मगुप्तः । जगति तमोभूतेऽस्मिन् सृष्ट्यादौ भास्करादिभिः सृष्टैः । यस्माद्दिनप्रवृत्तिर्दिनवारोऽदयात् तस्मात् ॥ ब्रा० स्फु० सि० १ अ० ३३ श्लो० । तथा श्रीपतिः सृष्टेर्मुखे ध्वान्तमये हि विश्वे ग्रहेषु सृष्टेष्विनपूर्वकेषु । दिनप्रवृत्तिस्तदधीश्वरस्य वारस्य तस्मादुदयात् प्रवृत्तिः ॥ सि० शे० मध्य० ११ श्लो० । लङ्कोदग्याम्यसूत्रात् प्रथममपरत: पूर्वदेशे च पश्चाद- ध्वोत्थाभिघंटीभिः सवितुरुदयतो वासरेश प्रवृत्तिः । ज्ञेया सूर्योदयात् प्राक् चरशकलभवैश्चासुभिर्याम्यगोले पश्चात् तैः सौम्यगोले युतिवियुतिवशाच्चोभयोः स्पष्टकालः ॥ सि० शे० मध्य १३ श्लो० । अन्यच्च तत्रैव | केचिद्वारं सवितुरुदयात् प्राहुरन्ये दिनार्धाद्भानोरर्धास्तमयसमयादूचिरे केचिदेवम् । वारस्यादि यवननृपतिर्दिङ्मुहूर्ते निशायां लाटाचार्यः कथयति पुनश्चार्धंरात्रे स्वतन्त्रे ॥ सि० शे० म० १० श्लो० ।