पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते वा० भा०- - भूपरिधेरुपपत्तिर्गोले कथ्यते । योजनलक्षणं गणिते कथितमस्ति । तथाप्यत्र यदुच्यते तदं कारणम् । भूरेकैव किन्तु यत्त्वायंभटादिभिराचार्यैः सत्यपि नियामके पलांशदर्शने- इन्यथान्यथा तत्प्रमाणमभिहितं तत्र षट्सप्ताष्टयवमङ्गलं कनिष्ठिकादिभेदेन शास्त्रेषूच्यते । तेनाभि प्र. येणाऽन्येन वा यत् तैरुक्तं तदनेन स्पष्टोक्रियते । याम्योत्तरयोः पुरयो: पलांशान् वक्ष्यमाण- प्रकारैर्ज्ञात्वा तेषामन्तरेणानुपात: । यदि भांशपरिधौ दक्षिणोत्तरमण्डल एतावत् पलान्तरं तदा भूपरिधौ पुरान्तरे किमिति | यल्लब्धं तावन्तो विभागा: पुरान्तरस्य क्रियन्ते । यावानेको विभाग- स्तावद्योजनं ज्ञेयम् । तादृशेर्योजनैर्देशान्तरं कर्तव्यमित्यर्थः ।। १ ।। • इदानीं भूपरिधिस्फुटीकरणं मध्यरेखां चाह - लम्बज्यागुणितो भवेत् कुपरिधिः स्पष्टस्त्रिभज्याहृतो यद्वा द्वादशसंगुणः स विषुवत्कर्णेन भक्तः स्फुटः । यल्लङ्कोजयिनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत् सूत्र मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः ॥२॥ १ वा० भा० - अत्रोपपत्तिर्गौले ॥ २ ॥ इदानों देशान्तरमाह | यत्र रेखापुरे स्वाक्षतुल्यः पलस्तन्निजस्थानमध्यस्थितैर्योजनैः । खेटभुक्तिर्हता स्पष्ट भूवेष्टनेनोद्धृता प्रागृणं स्वं तु पश्चाद् ग्रहे ||३|| वा० भा० - अत्रोपपत्तिस्त्रैराशिकेन गोलेऽभिहिता च ॥ ३ ॥ इदानों देशान्तरघटिका आह । प्राग्भूविभागे गणितोत्थकालादनन्तरं प्रग्रहणं विधोः स्यात् । आदौ हि पश्चाद्विवरे तयोर्या भवन्ति देशान्तरनाडिकास्ताः ॥४॥ तघ्नं स्फुटं षष्टिहृतं कुवृत्तं भवन्ति देशान्तरयोजनानि । घटीगुणा षष्टिहृता धुभुक्ति: स्वर्णं ग्रहे चोक्तवदेव कार्यम् ॥ ५॥ १. अत्र श्रीपतिः । लङ्का कुमारी नगरी च काञ्ची पानाटमद्रिश्च सितः षडास्यः । श्रीवत्सगुल्मं च पुरी ततश्च माहिष्मती चोज्जयिनी प्रसिद्धा | स्यादाश्रमोऽस्मान्नगरं सुरम्यं ततः पुरं पट्टशिवाभिधानम् । श्रीगर्गराटं च सरोहितार्क्षस्थानेश्वरं शीतगिरिः सुमेरुः ॥ इतीव याम्योत्तरैगां धराया रेखामिमां गोलविदो वदन्ति । अन्यानि रेखास्थितिभाजि लोके ज्ञेयानि तज्ज्ञः पुटभेदनानि || ( सि० शे० मध्य० ९५-९७ श्लो० )