पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ सिद्धान्तशिरोमणौ ग्रहगणिते एवं सौरपक्षे शके १८८५ आश्विनोऽधिमासः पौषः क्षयमासः । ततः शके २०२६ भाद्रपदोऽधिमासः पौषः क्षयः । ततः शके २०४५ भाद्रपदोऽधिमासः | माघः क्षयमासः । अत्रैकवार्षिकी शुद्धिर्यावद्गोकुभिः कुवेदेन्दुवर्षेर्वा गुण्यते तदा तिथिस्थाने शून्यं भवतीति तैर्वर्षैः क्षयमाससंभव उक्तः । केचित्तु— सवितृमण्डलमेति यदा शशी तदनुसङ्क्रमणं कुरुते रविः । मखमहोत्सवनाशकरस्तदा मुनिवरैः कथितोऽधिकमासकः । इत्यादिवाक्यैर्योऽयमीदृशोऽधिकमासः स एव मखमहोत्सवादौ निषिद्ध इत्याहुः । अयमर्थः । योऽयं गणिते दर्शान्तः समायाति स किल रविचन्द्रबिम्बकेन्द्रयोगकालः । तस्मात् कालाद्रविचन्द्रबिम्बप्रान्तयोगो मानैक्य खण्डकलाकालेन पूर्वमासीद् भविष्यति च तदग्रत इति स काल: साध्योऽनुपातेन । यदि गत्यन्तरकलाभिः षष्टिघटिकास्तदा मानैक्यखण्डकलाभिः किमिति स कालो भवति । अनेन कालेन दर्शान्त ऊनितो युक्तश्च कार्यंः । स तु बिम्बस्पर्शभुक्तिकालयोरन्तरमिव रविचन्द्रबिम्बकालो भवति । अमुमेव मण्डलान्तमासमित्याहुः । मण्डलान्तमासानन्तरं चेद्रविसङ्क्रमणं तदाऽधिमासः सर्वकर्मसु निषिद्धो नान्यथाऽधिके निषिद्ध इति कर्मानुष्ठानोपयोगिकालप्रतिपादकग्रहगणितशास्त्रप्रवर्त्त- कैर्मुनिभिरयं मण्डलान्तमासोऽधिकमासनिर्णयायादृतश्तेत्तदा को नाम न स्वीकुर्यात् । वेद एव धर्मे प्रमाणं नान्यदिति वादिनामृषीणां श्रुतिस्मृतिकर्मानुष्ठानोपयुक्तं यदेव स्मरणं तदपि वेदमूलकमेव । तस्मान्मण्डलान्तमास आर्षमूलकश्चेत्तदा प्रमाणिक एव किं बहुनोक्तेन । किञ्च ग्रहयुतौ 'ध्रुवान्नीयमानसूत्रस्थयोरेव ग्रहयोर्योगो विवक्षितः । भेदयोगे च भूपृष्ठस्थदृक्सूत्रस्थयोर्योगो विवक्षितः । अत एव शाकल्ये भेदयोगे न हक्कमंदानं किन्तु ग्रहयुतिकाले लम्बनदानमन्ययोगे च न लम्बनदानं किन्तु दृक्कर्मसंस्करणमुक्तम् । दृक्कर्मणैव तत्सिद्धेर्भग्रहग्रहसंयुतौ । २ लम्बनावनती स्याता 3 मपि सत्यन्तरद्वये ॥ इष्टं लम्बनमन्यत्र यदिष्टाऽवनतिर्भवेत् ॥ इति ॥ अमा सार्द्धं वसतः सूर्याचन्द्रमसौ यस्यां साऽमावास्येति शब्देन दर्शान्त उच्यते । अत्र दर्शान्तकाले भूगर्भान्नीयमानमर्कोपरि यत्सूत्रं तत्सूत्रस्थयोरेव रविचन्द्रयोर्योगः स्वीकृतः । तनोति विस्तारयति वर्धमानां क्षीयमाणां वा चन्द्रकलां यः कालविशेषः स तिथिशब्देनोच्यत इत्यत्रापि भूगर्भान्नीयमानमर्क प्रति यत्सूत्रं यच्च भूगर्भाच्चन्द्र प्रति नीयमानं तत्सूत्रयोरन्तरं यदा द्वादशभागमितं तदैकैका तिथिरिति मुनिभिः स्वीकृतम् । यत्र तेषां मुनीनां यादृशी गणितरचना तत्र स्थले तादृशोऽर्थस्तेषां सम्मतो विवक्षित १. कुर्वन् क० ख० पु० २. संगतौ क ख ग पु० । ३. नस्ता क ख ग पु० ।