पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारेऽधिकमासादिनिर्णयाध्यायः ८७ द्विसङ्क्रान्तिमासः क्षयाख्य उक्तः । द्विसङ्क्रान्तित्वं तदा भवति यदा चान्द्र- मासमानात् सौरमासमानं न्यूनं भवति । सौरमासमानञ्च तदा न्यूनं भवति यदा सूर्यगतेराधिक्यं भवति रविगतेराधिक्यञ्च सम्प्रतीदृशे रविमन्दोच्चे २११८/०/० वृश्चिकादिस्थिते भवतीति । क्षयः कार्त्तिकादित्रय एव सम्प्रति स्यादिति भाष्यं व्याख्येयम् । वृश्चिकादित्रयस्थेऽपि तदा स्याद्यद्यधिशेषं तात्कालिकमतिस्वल्पं स्यात् । तत्स्वल्पत्वमधिकमासे पूर्वनिकटपतिते भवेदिति क्षयमासात्पूर्वमधिमासो नियतः । क्षयमासादूर्ध्वं यदैव सौरमासस्योपचयस्तदैवाधिकमास इति वर्षेऽधिमासद्वयमुत्पन्नम् । मासत्रयाभ्यन्तरेऽधिकमासो भवतीति भाष्यकृदभिप्रायः । न च पूर्वोऽधिमासः क्षयमासान्मासत्रयमित एवान्तरे भवतीति युक्तम् क्षयमाससंलग्नोप्यधिमासः संश्रूयते । तत्प्राक्संग्यधिमासको यदि भवेत् तत्रत्य सांवत्सरम् । तस्मिन् शुद्धतया क्षयेऽपि वचनात् कुर्याद्द्वयोः कोविदः । इति निर्णयश्रवणात् । मासत्रयोक्तिरुपलक्षणम् । भाद्रपदोऽधिमास उदाहर- णार्थत्वेनेति । इदमधिमासद्वयं क्षयश्च स्पष्टमानेनैव | मध्यममानेन क्षयमासो नोत्पद्यते । मध्यमसौ रमासमानस्य मध्यमचान्द्रमासमानादधिकत्वात् । क्षयमासोदाहरणं सकलागमाचार्यगणेशदेवज्ञैः कृतं तत् प्रदर्श्यते । शकातीकाले १४६२ सौरपक्षे दर्शान्ता: ' सङ्क्रान्तयश्च । अत्र मासाः शुक्लादिका वेद्या । भाद्रकृष्ण- पक्षेऽमातिथिर्भौमे घटिकाः ४७ रव्युदयात् । तत्रोदयात्कन्या जात एतासु घटीषु । एवं सर्वत्र वेद्यम् । आश्विने ३० गुरौ घ० १४ ॥ तत्र तुलार्क : घ० २४ अधिमासोऽयम् । कार्त्तिके ३० शनौ घ० ४८ वृश्चिकेऽर्कः ६० ४९ । मार्गशीर्षवदि ३० रवौ घ० ३० धनुष्यर्क: घ० ४७ । पौषकृष्ण ३० भौमे घ० १६ मकरेऽर्क: घ० ६ क्षयमासोऽयम् । माघवदि ३० गुरौ घ० ३ चतुर्दश्यां घ० १४ बुधे कुम्भेऽर्कः घ० ३३ | शके १४६३ वैशाखोऽधिमासः । एवञ्च शके १६०३ सौरपक्षे भाद्रवदि १४ गुरौ घ० ३ तत्र कन्यार्कः । भाद्रवदि ३० शुक्रे घ० ३ । तत्र आश्विनवदि ३० शनौ घ० ३५ तुलार्क: घ० ५३ अधिमासोऽयम् । कात्तिकवदि ३० । घ० १५ चन्द्रे वृश्चिकेऽर्कः घ० ४७ | मार्गशीर्षवद ३० बुधे घ० धनुष्यर्क: घ० १६ । पौषवदि ३० गुरौ घ० ४८ मकरेऽर्कः घ० ३५ क्षयमासोऽयम् । ततः शके १७४४ भाद्रवदि १४ शनौ घ० २४ कन्यार्क: घ० ५६ । भाद्रवदि ३०॥ रवौ घ० २४। आश्विनवाद ३० भौमे घ० १ तुलार्क: घ० २२ अधिमासः । कात्तिके ३० बुधे व० ४४ | मार्गशीर्षशुक्ल १ गुरौ वृश्चिकेऽर्कः घ० १६|| मार्गशीर्ष वदि ३० शुक्रे घ० ३१ धनुष्यकः घ० ४५ ॥ पौषवदि ३० रवौ घ० २० मकरेऽर्कः घ० ४ क्षयमासोऽयम् । १ दर्शा: स क ख ग पु० ।