पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ सिद्धान्तशिरोमणौ ग्रहगणिते द्वात्रिंशद्भिर्गतैर्मासैदिनैः षोडशभिस्तथा । घटिकानां 'चतुष्केण पततीत्यधिमासकः ॥ इति नियमोऽनर्थकः स्यादिति मध्यमः स्वीक्रियतामिति यदि ब्रूयात् प्रतिब्रूया- देनम् । किं भवता कृष्णद्वितीयायां घटिकाचतुष्टये गतेऽधिकमासारम्भः स्वीकृतः ! तथा सति शिष्टसमाचारभङ्गो दूषणम् । किञ्च - यस्मिन् मासे न संक्रान्तिः सङ्क्रान्तिद्वयमेव वा । मलमासः स विज्ञेयो मासे त्रिंशत्तमे भवेत् । इति काठकगृह्यं भवन्मते विरुध्येत । पञ्चमे पञ्चमे वर्षे मासावधिमासकौ । तेषां ग्रहाणामतिचारतः ॥ द्वौ कालातिचारेण इन्द्राग्नी यत्र हूयेते मासादिः परिकीर्तितः । अग्नीषोमौ स्थितौ मध्ये समाप्तौ पितृसोमकौ । तमतिक्रम्य तु यदा रविर्गच्छेत् कदाचन । आद्यो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतो बुधैः ॥ असंक्रान्तिद्विसंक्रान्तिः संसर्पाहस्पती उभौ । समौ च बहवश्चाब्दे त्वधिमासः परः स्मृतः ॥ इति महाभारत - लघुहारीत-ज्योतिर्नारदादिवाक्यानि च विरुध्येरन् । इह गणितशास्त्रे श्रौतस्मार्त्तकर्मानुष्ठानार्थं फलादेशोपयोगाय वा शृङ्गोन्नतिग्रहणादिग्रह गणितजातमुच्यते । तत्र फलादेशशास्त्रेषु नारदोक्तसंहितादिषु स्मृतिषु च स्पष्टत्वेनैव व्यवहारः। यत्तु गणिते मध्यमानयनं कृतं तत् स्पष्टत्वसाधनार्थमेव । अहर्गंणोऽपि स्पष्टाधिमासवशेनैव सैको निरेकः प्राक् साधितः । किञ्च “यज्ञादिकालार्थंसिद्धये गणितशास्त्रं वदामः ।" इति वदतामृषीणां यादृशो ग्रहगणितोपबन्धस्तादृश एव कर्मानुष्ठानोपयुक्तो भवति । यस्मिन् मुनिकृत- शास्त्रे ग्रहयुतिमहापातादिगणितकर्म स्वल्पं दृश्यते तत्साकाङ्क्षमिति ज्ञेयम् । तस्या- काङ्क्षापूरणमन्यमुनिशास्त्राद्विशेषगणितप्रतिपादकात्कार्यम् । ‘सर्वशाखाप्रत्ययमेकं कर्म' इति वत् । यथा च सूर्यसिद्धान्ते महापातसाधने गत्यन्तरं हर उक्तः स च साकाङ्क्ष एव शाकल्ये क्रान्तिगत्यन्तरस्यैव हरत्वाभिधा- नादिति । तस्मात् स्पष्टत्वेनासङ्क्रान्तिमास एवाधिकमास : " द्वात्रिंशद्भिर्गतैर्मासैः” इति वाक्यं मध्यममानाभिप्रायेणोक्तम् “मासे त्रिंशत्तमे भवेत्' इति वाक्यमुपलक्षण- त्वेनाङ्गीकार्यमिति न कोऽपि दोषः । १. चतुष्केन क ख ग पु० । वृद्धव० सि० ६५ श्लो० । २. अयमंशो ग पु० नास्ति ।