पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारेऽधिकमासादिनिर्णयाध्यायः इति गम्यते । यद्यन्यमुनिग्रन्थे विशेषो दृश्यते तदेदं मुनिकृतं सामान्यशास्त्रमिति गम्यत इति प्रागुक्तमेव । 'पदे जुहोति' इत्यनेनाहवनीये जुहोतीतिवत् । यथा च भेद- योगे दृक्क र्मसंस्कारो न कर्त्तव्य इत्यर्थप्रतिपादके न ग्रहणादन्ययोग इति शाकल्यवाक्येन नक्षत्रग्रहयोगेष्विति सर्वत्र प्राप्यमाणं सूर्यसिद्धान्तवाक्यमिव । एतेनाधिकमासनिर्णयाय दर्शान्ते लम्बनसंस्कृति स्वकपोलकल्पितां वदन्तश्चन्द्रग्रहणे च तिथौ दृक्कर्मसंस्कार च वदन्तो निरस्ताः । अथवा मुनिमतविरुद्धं वदन्तु नाम किं ममानेन तथाऽपि । “शाकल्यसंज्ञमुनिना निखिलं निबद्धं पद्यस्तदेव विवृणोमि सवासनं स्वैः” । इति तेषां प्रतिज्ञाभङ्गो मम चित्तं क्षोभयति । यद्यपि न भवति हानिः परकीयां चरति रासभे द्राक्षाम् । असमञ्जसमिति मत्वा तथापि खलु खिद्यते चेतः । इति न्यायेन । किञ्च शीघ्रोच्चमन्दोच्चपाताख्यदेवताविशेषाः सौरादिशास्त्रे- षूक्तास्त्वया च नीचदेवताऽप्यधिका स्वीकृता । 'ग्रहात्प्राग्भगणार्द्धस्थः प्राकुमुखं कर्षति ग्रहम् । उच्चसंज्ञोऽपरार्द्धस्थस्तद्वत्पश्चान्मुखं ग्रहम् । इत्यनेन किं न विरुध्यते दूरस्थितः स्वशीघ्रोच्चाद्ग्रहः शिथिलरश्मिभिः सव्येतराकृष्टतनुर्भवेद्वक्रगतिर्ग्रहः ८९ । • इत्यनेनापि नीचदेवतास्वीकरणं विरुध्यते । यथोच्चदेवतया ग्रह आकर्ष्यते तथा नीचेनाप्याकर्ष्यत इति त्वयोच्यते । तथा सति नीचसान्निध्ये न वक्रा गतिर्धन - वासनाप्रतिपादनं यन्मुनिभिरुच्यते तत्सर्वं त्वदुक्तनीचदेवतास्वीकारेण विरुध्यते । उच्चनीचदेवतयोस्तुल्यगतित्वेन विरुद्धदिग्जनितसमाकर्षणाद्ग्रहबिम्बस्वरूप - मुन्मथ्येत निष्क्रियं वा प्रसज्जेत । किञ्चोच्चदेवतावशेनैवोपपद्यमानं ग्रहोर्ध्वाधरगमनं न स्वार्थे देवताद्वयं कल्प- पयति । याम्योत्तरगतौ विक्षेपात्मिकायामेकस्य पातस्यैव कारणत्वेन कल्पितत्वात् । तस्मादिदमप्यसत् । किञ्च शनिकक्षोर्ध्वस्थस्य भचक्रस्य 'सममुडुभिरदृश्यैरङ्कितं दस्रभाद्यैः' इत्यनेनाभानप्रतिपादनं दृश्यमानाना- मश्विन्यादिनक्षत्राणाञ्च चन्द्रकला स्थितत्वापादनं मुनिमतविरुद्धत्वादयुक्तत्वाच्चासत् । किञ्च भूमेराधारकल्पना स्वीकरणं गतिशास्त्रप्रणेतृ विरुद्धत्वादयुक्तम् । किञ्च गतेर्मन्दफलसाधने टीकाकारेण धनर्णव्यत्यास उक्तस्तत्र च मन्दकर्ण - वृद्धिह्रासयोः कारणत्वाभिधानं कृतं तदप्यसत् । १. सूर्य सिद्धा० स्पष्टा० ४ श्लो० । २. सू० सि० स्प० ५२ श्लो० | वक्रगतिस्तदा' इ० पाठा० । ३. स्वार्थ क ख ग पु० | सि० - १२ ४. फलमाधने इ० गपु० ।